SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः । तद्राह्मण्योपढौकिते दनि, मुनिभ्यां व्यतीतकियद्दिनमेतदिति पृछयमाने, धनपालः 'किमत्र पूतराः सन्तीति' सोपहासमभिदधानो, व्यतीतदिनद्वयमेतदिति ब्राह्मण्या निर्णय प्रोक्तं। ताभ्यां पूतराः सन्त्यत्रेत्यभिहिते स्नानासनात्तदर्शनार्थमुत्थाय तत्रागतः सन् स्थालेऽधिरोपितदधिसंनिधौ यावद्यावकपुम्भेऽधिरूद्वैस्तद्वर्णजन्तुभिर्दधिपिण्डइव पाण्डुरतामालोक्य जिनधर्मे जीवदयाप्राधान्यं तत्रापि जीवोत्पत्तिज्ञानवैदग्ध्यं । यतः ४५) मुग्गमासाइपमुहं विदिलं कच्चम्मि गोरसे पडइ। ___ता तसजीवुप्पत्ती भणन्ति दहिए तिदिणुव्वरिएँ ॥ तजिनशासने एवेति निश्चित्य शोभनमुनेः शोभनबोधात्सम्यकप्रतिपत्तिपुरःसरं सम्यक्त्वं भेने । कर्मप्रकृत्यादिजैनविचारग्रन्थेषु प्रकृत्या प्राज्ञः परं प्रावीण्यमुद्वहन् , प्रातः प्रातर्जिनार्चावसरप्रान्ते४६) *कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मतिवितरता मोहेनाहो मयानुसृतः पुरा । त्रिभुवनपतिबुद्ध्याराध्योऽधुना स्वपदप्रदः प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १ ॥ ४७) सव्वत्थं अत्थि धम्मो जा मुणियं जिन न सासणं तुम्ह । कणगाउराण कणगु व ससियपयमलम्भमाणाणं ॥ २ ॥ ४८) देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति । क्षेत्राधीशः शिम्बिकाः संप्रदत्ते सार्वस्तुष्टः संपदं स्वां ददाति ॥३॥ १ सन्तीत्यत्रेत्य P २ पभिई c ३ खटम्मि c ४ वितिदिण्डवरि c ५ सम्यक्तत्त्वं भेजे a K६ मितवितरिता मोहेन Ka : पद्यमिदं प्रभावकचरिते महेन्द्रसुरिप्रबन्धेऽप्यस्ति ( ११४) ७ सच्चत्थ c ८ कणगं व. ९ सेतिका a शाकमानं b १० सर्वज्ञः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy