SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः। ३९) दारिद्यानलसंतापः शान्तः संतोषवारिणा । दीनाशाभङ्गजन्मा तु केनायमुपशाम्यतु ॥ २ ॥ ४०) न भिक्षा दुर्भिक्षे पतति, दुरवस्थाः कथमृणं लभन्ते, कर्माणि क्षितिपरिवृढान्कारयति कः । अदत्त्वापि ग्रासं ग्रहपतिरसावस्तमयते क यामः किं कुर्मो गृहिणि गहनो जीवितविधिः ॥ ३ ॥ ४१) क्षुत्क्षामःपथिको मदीयभवनं पृच्छन्कुतोऽप्यागतः तरिक गेहिनि किंचिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनैवाक्षरैः स्थूलस्थूलविलोललोचनगलद्वाप्पाभ्भसा बिन्दुभिः ॥ ४ ॥ ४२) व्रजत बजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क सार्थः पुनरीदृशः ॥ ५ ॥ इति तद्वाक्यान्त एव स माघपण्डितः पञ्चत्वमवाप । प्रातस्तं वृत्तान्तमवगम्य श्रीभोजेन श्रीमालेषु सजातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्ट क्षुधाबाधिते सति भिल्लमाल इति तज्जाते म निर्ममे ॥ १९पुरा समृद्धिविशालायां विशालायां पुरि मध्यदेशनन्मा सांकाश्यगोत्रः सर्वदेवनामा द्विजो निवसन् जैनदर्शनसंसर्गात्प्रायः प्रशान्तमिथ्यात्वो धनपालशोभनपुत्रद्वयेनान्वितः कदाचिदागताश्रीवर्द्धमानसूरीन्गुणानुरागान्नि जोपाश्रये निवास्य निर्द्वन्द्वभक्त्या परितोषितान्सर्वज्ञपुत्रानिति धिया तिरोहितं निजपूर्वजनिधिं पृच्छंस्तैर्वचनच्छलेनाविभागं याचितः संकेतनिवेदनालब्धनिधिस्तदर्ध यच्छंस्तैः पुत्रद्वयादर्घ याचितो ज्यायसा धनपालेन मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः कनीयसि शोभने ___ १ जलै| P * पद्यमिदं भोजप्रबन्धेऽपि वर्तते ( २८३ ) २ कवसार्थः पुनरीदृश इति वाक्यान्ते H ३ तज्ज्ञातनाम P ४ काश्यपगोत्रः P ५ शोभ नाभिधान H Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy