SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः | [ द्वितीयः वमण्डले गत्वां धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कि - यदपि द्रव्यमानेयमिति तत्र पत्नीं प्रस्थाप्य यावत्तदाशया माघपण्डितश्चिरं तस्थौ तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससंभ्रमः शलाकान्यासेन तत्पुस्तकमुन्मुद्यकाव्यमद्राक्षीत् - ५४ ३७) कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मुदमुलकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः * ॥ अथ काव्यार्थमवगम्य का कथा ग्रन्थस्य केवलमस्यैव काव्यस्य विश्वम्भरामूल्यमल्पं । समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिर्लक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः संचरन्ती विदितमाघपण्डितपत्नी कैश्चिद्भिरर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी तद्वृत्तान्तं विज्ञापनापूर्वं किञ्चिच्चरणस्फुरच्छो फाय पत्ये निवेदयामास । अथ त्वमेव मे शरीरिणी कीर्त्तिरिति ला श्रमानस्तदा स्वगृहमागतं कमपि भिक्षु वीक्ष्य भुवने तदुचितं किमपि देयमपश्यन् संजातनिर्वेद इदमवादीत् ३८) Tअर्थ न सन्ति न च मुञ्चति मां दुराशा दानान्न सङ्कुचति दुर्ललितः करो मे । याञ्चाच लाघवकरी स्ववधे च पापं प्राणाः स्वयं त्रजत किं परिदेवितेन ॥ १ ॥ पद्यमिदं माघकृते १ अयं कथाभागः भोजप्रबन्धेऽपि वर्तते ( पृ. ६३ ) शिशुपालवधे वर्तते T ३८,३९ श्लोक माधकवेरिति शार्ङ्गधरपद्धत्यां ( ४०७,४०६ ) भोजप्र बन्धेऽपि ( २८१,२८२) सुभाषितावल्यां ( ३१८० ) कस्यापीति २ दानाद्धि P त्यागान्नसङ्कुचति 1. त्यागान्नसंचलति दुर्ललितं मनो मे | H Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy