SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ মাহঃ ]। भोजभीमप्रबन्धाः। व्या मणिमरकतकुहिमशैवलवल्लरीयुग़जलभ्रान्त्या धौताम्बरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवता नन्तरं निवृत्ते मन्त्रावसरेऽशनसमयसमागतां रसवतीमास्वादमान अकालिकैरदेशजैर्व्यञ्जनैः फलादिभिश्चित्रीयमानमानसः संस्कृतपयःशालिशालिनी रसवतीमाकण्ठमुपभुज्य भोजनान्ते चन्द्रशालामधिरुह्याश्रुतादृष्टपूर्वकाव्यकथाप्रबन्धप्रेक्षादीनि प्रेक्षमाणः शिशिरसमयेऽपि संजाताकस्मिकग्रीष्मभ्रान्त्या संवी तसितस्वच्छवसनस्तालवृन्तकरैरैनुचरैवींज्यमानोऽमन्दचन्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिस्वनाद्विगतनिद्रो हिमसमये ग्रीप्मावतारव्यतिकरो' माघपण्डितेन ज्ञापितः प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय स्वदेशगमनायापृच्छन् स्वयं करिप्यमाणनव्यभोजस्वामिप्रासादप्रदत्तपुण्यो मालवमण्डलं प्रति प्रतस्थे । . तथा निजजन्मदिने जनकेन नैमित्तिकाज्जातके कार्यमाणे पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्ते गलितविभवः किंचिच्चरणयोराविर्भूतधयथुविकारः पञ्चत्वमाप्स्यतीति निमित्तविदा निवेदितां विभवसंभारेण तां ग्रहगति निराचिकीर्षुणा माघपित्रा संवत्सरशतप्रमाणे मनुजायुषि षट्त्रिंशत्सहस्राणि दिनानि भविष्यन्तीति विमृश्य नाणकपरिपूर्णांस्तावत्संख्यान् हारकान् कारितनव्यकोशेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनाम्ने सुताय कुलोचितां शिक्षां वितीर्य कृतकृत्यमानिना तेन विपेदे। तदनन्तरमुत्तराशापतिरिव प्राज्यसाम्राज्यो विद्वजनेभ्यः श्रियं तदिच्छया यच्छन्नमानैर्दानैरर्थिसार्थं कृतार्थयस्तैोगविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनः स प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपाते स्वविषये स्थातुमप्रभूष्णुः सकलत्रो माल १ भीष्मोष्मभ्रान्त्या .KH २ व्यतिकरं K३ कारित KL ४ प्रसाद P ५ निवेदिते a K ६ प्राप्त प्राज्य साम्राज्यो K L ७ तैस्तैः a K Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy