SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५२ प्रबन्धचिन्तामणिः। [द्वितीयः इति तेन विज्ञप्ते चतुरचक्रवर्ती श्रीभोजस्तसामुद्रिकविलोकनान्निश्चलदृक् । तादृशं नृपं विमृश्योपायनवस्तून्युपनेतुं स सान्धिविग्रहिकस्तं प्राहिणोत् । तेषु वस्तुषूपनीयमानेषु तद्गुणवर्णनवार्तान्तरव्याक्षेपेण च भूयसि कालविलम्बे संवृत्ते स्थगीवाहकोऽद्यापि कियच्चिरं विलम्बत इति राज्ञा समादिष्टः स तं भीममिति विज्ञपयामास । राजा तदा तदनुपदिकानि सैन्यानि प्रगुणयन् डामरेणाभिदधे । द्वादश द्वादश योजनानां प्रान्ते प्रावहणिका हया घटिकायोजनगामिन्यः कैरभ्योऽनया समग्रसामग्र्या श्रीभीमो भुवमाक्रमन्कथं भवता गृह्यते इति विज्ञप्तस्तेन पाणी घर्षयित्वा चिरं तस्थे । १८ अथ श्रीभोजः श्रीमाघपण्डितविद्वत्तां पुण्यवत्तां च सतताकर्ण्य तदर्शनोत्सुकतया राजादेशैः सततं प्रेप्यमाणैः श्रीमालनगराद्धिमसमये स. मानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान्दर्शयन् , रात्रावारात्रिकावसरानन्तरं संनिहिते स्वसंनिभे पल्यके माघपण्डितं नियोज्य तस्मै स्वशीतरक्षामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुखेन सुष्वाप । प्राताङ्गल्यतूर्यनिषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन्नहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवा भिरलं शीतरक्षाभारेणं श्रान्तं विज्ञपयन्खिद्यमानेन राज्ञा कथं कथञ्चिदनुज्ञातः पुरोपवनं यावद्भूभुजानुगम्यमानः माघप. ण्डितेन खागमनप्रसादेन संभावनीयोऽहमिति विज्ञप्यं नृपानुज्ञातः स्वं पदं भेजे । तदनु कतिपयदिनैः श्रीभोजस्तद्विभवभोगसामग्रीदिदृक्षया श्रीश्रीमालनगरं प्राप्तः । माघपण्डितेन प्रत्युद्गमादियथोचितभक्त्याऽऽवर्जितः ससैन्यस्तन्मन्दुरायां ममौ । स्वयं तु माघपण्डितस्य सौधमध्यास्य संचारकभुवं काञ्चनबद्धामवलोक्य स्नानादनु देवतावसरो. १ निश्चलदृशं PH २ करिण्यः . ३ कुमुदपण्डितसुतमाघ d ४ आकर्णयत् (C ५ शीतभारेण P ६ विज्ञप्तो P ७ काचबद्धां HK Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy