________________
प्रकाशः]
भोजभीमप्रबन्धाः १२ कस्मिंश्चिद्धर्मशास्त्राकर्णनक्षणेऽर्जुनस्य राधावेधमाकर्ण्य किमभ्यासस्य दुष्करमिति विमृशन्सतताभ्यासवशाद्विश्वविदितं राधावेधं विधाय नगरे हदृशोभां कारयस्तैलिकसूचिकाभ्यामवज्ञया निराकृतोत्सवाभ्यां श्रीभोजभूपो व्यज्ञप्यत । तैलिकेन चन्द्रशालास्थितेन भूमिस्थितसंकीर्णवदने मृण्मयपात्रे तैलधाराधिरोपणात् , सूचिकेन च भूमिस्थितेनोकृततन्तुमुखे आकाशात्पतन्त्याः सूच्या विवरं नियोज्य निजाभ्यासकौशलं निवेद्य नृपं प्रति चेच्छक्तिरस्ति ततः प्रभुरप्येवं करोत्वित्यभिधाय राज्ञो गर्व खर्व चक्राते ॥ ३२) भोजराज मया ज्ञातं राधावेधस्य कारणम् ।
धाराया विपरीतं हि सहते न भवानिति'॥ * १३ विद्वद्भिरिति श्लाध्यमानो नवनगरनिवेशं कर्तुकामः पटहे वाद्यमाने धाराभिधया पणस्त्रियाग्निवेतालनाम्ना पत्या सह लङ्कां गत्वा तं -नृपेणोक्तम्-भो इदं किमुपायनम् ? डामरस्तत्कालोत्पन्नमतिः प्राह-देव ! श्रीभीमेन कोटिहोमः कारितः, तद्रक्षेयं तीर्थभूता, प्रीत्या भवत्कृते प्राभृतीकृताऽस्ति । इति तेनोक्ते हृष्टचेतसा राज्ञा स्वहस्तेन सर्वेषां समर्पिता । तैः सर्वस्तिलककरणेन वन्दिता । अन्तःपुरे प्रेषिता । ततः स सम्मानितः प्रतिप्राभृतसहितः पश्चादागतः। ज्ञातवृत्तान्तेन श्रीभीमेनापि पूजितः।
पुनः कौतुकाक्षिप्तचित्तः श्रीभीमः कस्मिन्नवसरे मुद्रामुद्रितलेखं विधाय तद्धस्ते समर्प्य, उपदापाणिं तड्डामरं मालवेप्रैषीत् । स उपदासहितं लेखं भोजहस्तेऽदात् । यावदुन्मय वाचयति तावदयं भवता शीघ्रं निपातनीय इति पश्यति । ततः सविस्मयेन राज्ञा पृष्टम्-भो इदं किं लिखितमस्ति । ततः स उत्पातिकामतिः प्राहदेव ! मज्जन्मपत्रिकायां समस्ति, यत्रास्य रुधिरं पतिष्यति तत्र द्वादशवर्षप्रमाणो दुर्भिक्षः पतिष्यति इति ज्ञात्वा श्रीभीमेनाहमत्र प्रेषितः स्वदेशविनाशभीतेन प्रच्छन्नलेखयुक्तः । एवं सति त्वं यथा रुचितं कुरु इति तेनोक्ते राजाह- नाहमात्मदेशप्रजाम. नर्थे पातयिष्ये । ततः सम्मान्य विसर्जितः प्राप्तः स्वदेशे । तद्बुद्धिकौशलेन पुनश्चमत्कृतः श्रीभीमस्तं बहुमन्यते।
१ नैव भूपतिः ॥ २ प्रवेष्टु कामः H L* पद्यमिदं वाग्भट्टकृत काव्यानुशासनेप्युदाहृतम् भोजराजस्थाने प्रज्ञापुञ्जेति पाठान्तरं तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org