________________
प्रबन्धचिन्तामणिः।
[द्वितीयः ३१) कोणे कौङ्कणकः कपाटनिकटे लाटः कलिङ्गोऽङ्गणे
त्वं रे कोशल नूतनो मम पिताप्पत्रोषितः स्थण्डिले । इत्थं यस्य विवर्द्धितो निशि मिथः प्रत्यर्थिनां संस्तर
स्थानन्यासभुवा विरोधकलहः कारानिकेतक्षितौ ॥ २ ॥ प्रयाणकपटहदापनादनु समस्तराजविडम्बनाटकेऽभिनीयमाने। सकोपः कोऽपि भूपः कारागारान्तरास्थितं सुस्थितं तैलिपं भूपमुत्थापयंस्तेनोचे । अहमिहान्वयवासी कथमागन्तुकभवद्वचसा निजं पदमुज्झामीति । विहसन्नृपो डामरं प्रति नाटकरसावतारं प्रशंसंस्तेनाभिदधे । देवातिशयिन्यपि रसावतारे धिग्नटस्य कथानायकवृत्तान्तानभिज्ञताम् यतः श्रीतैलिपदेवराजः शूलिकाप्रोतमुञ्जरानशिरसा प्रतीयत इति सभासमक्षं तेनोक्ते तनिर्भत्सनसंपन्नमन्युरनन्यसामग्र्या तदैव तिलङ्गदेशं प्रति प्रयाणमकरोत् । ___ अथ तैलिपदेवस्यातिबलमायान्तमाकर्ण्य व्याकुलं श्रीभोज डामरः समायातः कल्पितराजादेशदर्शनपूर्व भोगपुरे श्रीभीमं समायातं विज्ञपयामास । तया तद्वार्तया क्षते क्षारनिक्षेपसदृक्षया विलक्षीक्रियमाणः श्रीभो. जराजो डामरमभ्यधात् । अस्मिन्वर्षे त्वया स्वस्वामी कथंचनेहागच्छनिवार्य इति भूयो भूयः सदैन्यं भाषमाणे नृपे प्रस्तावविन्नृपाद्धस्तिनीसहितं हस्तिनमुपायने उपादाय पत्तने श्रीमं परितोषयामास । *
१ रनन्यसामान्यसामग्र्या B H * अत्र मु. जि. F सशकआदर्शे डामरसम्बन्धी निम्नलिखितमधिकमुपलभ्यते
___ अथान्यस्मिन् वर्षे श्रीभीमस्तं डामरं मालवमण्डले प्रेषयितुकामो वार्तादि शिक्षयन् आस्ते । डामर उत्तिष्ठन् पटीं प्राक्षाडयामास । ततः श्रीभीमेन पृष्टः स आह-भवच्छिक्षितमत्रैव मुश्वामीत्यूचे । यतस्तत्र गतोऽहं रवयमेवावसरोचितं ब्रुविष्ये। अन्यशिक्षितं कियत्कथयिष्यते। ततो राजा तस्यावसरोचितचातुरीविज्ञानाय प्रच्छन्नं स्वर्णमयं समुद्कं रक्षापुञ्जेन भृत्वा,भोजसभाया अन्यत्र नायमुद्धाटनीयः, इति शिक्षयित्वा तद्धस्ते उपदार्थमदात् । ततः स गतो मालभोजसभायां तं बहुपकूलवेष्टितं आनाय्य भोजनुपाने मुमोच । स उद्वेष्टय विलोकयति तदा मध्ये छारपुञ्जः । ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org