________________
प्रबन्धचिन्तामणिः।
[द्वितीयः नगरनिवेशमालोक्य पुनः समागतया मन्नाम नगरे दातव्यमित्यभिधाय तत्प्रतिच्छन्दपटं समर्प्य स धारां नगरी निवेशयामास ।
१४ कस्मिन्नप्यहनि स नृपः सान्ध्यसक्सिरानन्तरं निजनगरान्तः परिभ्रमन् ॥ ३३) एऊ जम्मु नग्गहं गिउ भडसिरि खग्गु न भग्गु ।
तिक्खां तुरियां न माणियां गोरी गलि न लग्गु ॥ इति केनापि दिगम्बरेण पठ्यमानमाकर्ण्य प्रातस्तमाकार्य रात्रिपठितवृत्तान्तसंकेतवशेन शक्तिं पृष्टः सन्३४) देव दीपोत्सवे जाते प्रवृत्ते दन्तिनां मदे ।
एकच्छत्रं करोम्येव सगौडं दक्षिणापथम् ।। . इति स्वपौरुषमाविःकुर्वन्सेनानीपदेऽभिषिक्तः ॥
१५ इतश्च सिन्धुदेशविजयव्या ते श्रीभीमे स दिगम्बरः समस्तसामन्तैः समं समेत्य श्रीमदणहिल्लपुरं भङ्गं कृत्वा धवलगृहघटिकाद्वारे कपर्दिकान्वापयित्वा जयपत्रं जग्राह । तदादि कुलचन्द्रेण मुषितमिति सर्वत्र क्षितौ ख्यातिरासीत् । स जयपत्रमादाय मालवमण्डले गतः श्रीभोजाय तं वृत्तान्तं विज्ञपयन्नुक्तो भवताङ्गालवापः कथं न कारितोऽनत्यमुद्ग्राहितं गूर्जरदेशे प्रयास्यंतीति श्रीसरस्वतीकण्ठाभरणेन श्रीभोजेनेत्यभिदधे ॥
१ प्रावृत्ते P२ कुलचंद्रं समेत्य H ३ १४,१५,१६ प्रबन्धानां स्थाने निम्नलिखितं C आदर्श समुपलभ्यते नवजलभरीया मग्गडा गयणि धडकई मेहु ।
इत्थन्तरि जरि आविसिइ तउ जाणीसिइ नेहु ॥ .. एषां भ्रूवल्लभया सह. राज्ञा तनिजपुत्रीस्वरूपं दृष्टं प्रातराकार्य गुर्जरदेशोपरि सेनाधिपत्यं ददौ तदा तेनोक्तं । देव दीपेति ॥ ततो गूर्जरदेशः समग्रोपि तेन विनाशितः । श्रीपत्तनचतुःपथे कपर्दिका वापितास्तस्यागतस्य राज्ञोक्तं । न कृतं रम्यं । अद्य प्रभृति मालवदेशदण्डः श्रीगूर्जरे यास्यतीति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org