________________
प्रकाशः]
मूलराजप्रबन्धः। सामन्तानाहूय कूटलेखकव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान्पदातींश्चान्वयावदाताभ्यामुपलक्ष्य यथोचितदानादिभिरावय॑ च समयसंकेतज्ञापनापूर्व तान्सर्वान्सपादलक्षीयनपतिशिबिरसंनिहितान्विधाय निीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भवमाक्रम्य प्रत्यूषकालेऽतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुडं कृपाणपाणिरेकाक्येव श्रीमूलराजस्तद्दौवारिकमभिहितवान् । साम्प्रतं नृपतेः कः समयः श्रीमूलराजो राजद्वारे प्रविशतीति स्वस्वामिने विज्ञापयेति वदंस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्यायं श्रीमूलराज एव द्वारे प्रविशतीति तस्मिन्नभिदधाने गुरूदरान्तः प्रविश्य तस्य राज्ञः पल्यके स्वयं निषसाद । भयभ्रान्तः स राजा क्षणमेकं मौनमवलम्ब्येषत्साध्वसं विधूय भवानेव श्रीमूलराज इत्यभिहिते श्रीमूलराजः स्पष्टं जगौ ॐ इति । गिरमाकर्ण्य यावत्समयोचितं किञ्चिद्वक्ति तावत्पूर्वसंकेतितैस्तैश्चतुःसहस्रपमितैः पत्तिभिः स गुरूदरः परिवेष्टयांचक्रे । अथ मूलराजेन स नृप इत्यभिदधे । अस्मिन्भूवलये नृपतिः समरवीरः समरे यो मम सम्मुखस्तिष्ठति स कोऽपि नास्त्यस्ति वेति मम विमृशतस्त्वमुपयाचितैरुपस्थितोऽसि । परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीयतैलपाभिधानराज्ञः सेनापति मज्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पाणिघातादिव्यापाररहितेन स्थातव्यमिति त्वामुपरोद्धमहमागतोऽस्मि । मूलराजेनेत्यभिहिते भूपतिरेवमवादीत् । यत्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृहे एक एव प्रविशसि तेन त्वया सार्धमाजीवितान्तमेव मे सन्धिः । तेन राजेत्युदिते मा मैवं वदेति तं निवारयंस्तेन भोजनाय निमन्त्रितोऽवज्ञया तं निषिध्य करे तरवारिमा - दायोत्थितः । तां करभीमारुह्यं तेन स्कन्धावारेण परिवेष्टितो बार
१ सामन्तानाकार्य क्षुणलेखेन व्ययकरण BHK २ ज्ञापनपूर्व A ज्ञापनपू. वकं H ३ प्रदोषकाले A || ४ करभ्यामेव Cd करभ्यामवरुह्य b ५ मुपयाचितशतै A BH ६ मधिरुह्य B ७ बारव a P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org