________________
२४
प्रबन्धचिन्तामणिः।
[प्रथमः
स्वमत्तेनोत्थाप्यते च तदादि चापोत्कटानां दानमुपहासप्रसिद्धम् । स इत्थमनुदिनं विडम्ब्यमानो निजपरिकरं सज्जीकृत्य विकलेन मातुलेन स्थापितो राज्ये तं निहत्य सत्य एव भूपतिर्बभूव ॥ 'सं० ९९८ वर्षे श्रीमूलराजस्य राज्याभिषेको निष्पन्नः ।।
२४ कैस्मिन्नप्यवसरे सपादलक्षीयक्षितिपतिः श्रीमूलराजमभिषेणं यितुं गूर्जरदेशसन्निधौ समाजगाम । तद्योगपद्येन नरपतेस्तिलङ्गदेशी. यराज्ञो बॉरपनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पाणिघातं कुरुत इति सचिवैः सह विमृशंस्तैरूचे । श्रीकन्थादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ते । नवरात्रिकेषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकंभर्यामेव स्वगोत्रनामाराधयिष्यति । तस्मिन्नवसरे श्रीबारपैनामा सेनानीर्जीयते । तदनु क्रमतः सपादलक्षोणीपतिरपीत्थं तदीये मन्त्रे श्रुते सति नृपः प्राह । मम लोके पलायनापवादः किं न भविष्यतीत्यादिष्टे ते ऊचुः२३)यदपसरति मेषः कारणं तत्प्रहत्तुं मृगपतिरपि कोपात्संकुचत्युत्पतिष्णुः। हृदयनिहितवैरागूढमन्त्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते॥
इति तद्वचसा श्रीमूलराजः श्रीकन्थादुर्गे प्रविवेश । श्रीसपादलक्षीयभूपतिः श्रीगूर्जरदेशे वर्षाकालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्रजामानीय तत्रैव नवरात्राणि प्रारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान्मन्त्रिणो ज्ञात्वा तत्कालोत्पन्नमतिवैभवो राजलाहणिकां प्रारभ्य राजादेशेन समस्तान्समन्ततः
१ सं. ९९३ वर्षे आषाढसुदि १५ गुरौ, अश्विनीनक्षत्रे सिंहलने रात्रिप्रहरद्वयसमये जन्मत एकविंशतितमे वर्षे श्रीमूलराजस्य राज्याभिषकः समजनि । इति मु पुस्तके पाठः ॥ २ मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥ इत्यादि स्तुतिभिः स्तूयमानः साम्राज्यं कुर्वन्नास्ते तस्मिनवसरे । A B H आदर्शष्वेवंपाठः (मूलार्क इत्यादि श्लोकः सिद्धहैमप्रशस्तिगतः श्लो. ६) ३ पराजेतुं A ४ देशसन्धौ P ५ बारवनामा P श्रीबारव P ६ रतिकोपात । ७ पद्यमिदं पञ्चतन्त्रे दृश्यते ८ लिहिणिकां a राजा लिहणिकां P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org