________________
प्रकाशः]
मूलराजप्रबन्धः।
५[॥ अथ मूलराजप्रबन्धः ॥] २२) असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो
जडप्रीतिः कूर्मो फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलकात्समुत्तस्थौ कश्चिद्विलसदसिपट्टः सुसुभटः ॥ इति ॥ २३ अथ पूर्वोक्तश्रीभूयडराजवंशे मुञ्जालदेवसुता राजबीजदण्डकनामानस्त्रयः सहोदरा यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्ताः । श्रीसामन्तासंहदेवनृपं वाहकेल्यामवलोकमानास्तुरगस्य नृपेण कशाधाते दत्ते सति कार्पटिकवेषधारी राजनामा क्षत्रियोऽनवसरे दत्तेन तेन कशाघातेन पीडितः शिरःकम्पपूर्व हाहेति शब्दमवादीत् । राज्ञा तकारणं पृष्टः स तुरङ्गमेन कृतं गतिविशेष न्युन्छनयोग्यमनवार्य कशाघाते दीयमाने मभैव मर्माघातः समजनि । तेन तद्वचसा चमत्कृतेन राज्ञा तुरङ्गो वाहनाय समर्पितस्तस्यैव । अश्वाश्ववारयोः सदृशयोगमालोक्य पदे पदे तयोर्युञ्छनानि कुर्वस्तेनैव तदाचारेण तस्य महत्कुलमाकलय्य लीलादेवीनाम्नी स्वभगिनीं ददौ । आधानानन्तरं कियत्यपि गते कालेऽ काण्डमरणे संजाते सचिवैरपत्यमरणं पर्यालोच्य तदुदरविदारणपूर्वमपत्यमुद्धृतं । मूलनक्षत्रजातत्वात्स श्रीमूलराजाभिधया समजनि । बालार्क इव तेजोमयत्वात्सर्ववल्लभतया पराक्रमेण मातुलमहीपालं प्रवर्द्धमानसाम्राज्यं कुर्वन् मदमत्तेन श्रीसामन्तसिंहेन साम्राज्येऽभिषिच्यते कर्करायां पूर्यामाकडेश्वरकण्टेश्वरीप्रासादौ कारितौ । सं०९६५! पौषशुदि ९ बुधे निरुद्धं वर्ष २६! मास १ दिन २० राज्यं कृतं ।। सं०९९० ! पौषसुदि १० गुरौ आमा॑नक्षत्रे कुम्भलग्ने भूयगडदेवः पट्टे समुपविष्टः । अनेन राज्ञा भूयगडेश्वरप्रासादः कृतः श्रीपत्तने प्राकारश्च सं० ९९१! वर्षे आषाढसुदि १५ निरुद्ध वर्ष २७ मास ६ दिन ५ राज्य कृतं एवं चापोत्कटवंशे पुरुषाः ७ तद्वंशे १९० वर्ष मास २ दिनसप्त राज्यं जातं ॥
१ पूर्वोक्त श्रीभूयडराजवंशे राजबीजदण्डनामानस्त्रयः पुत्राः सहोदरा यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्त्य श्रीमदणहिलपुरे श्रीसामन्तसिंहनपं वाहकेल्यां A B H K २ भूयड a P३ योग्यता K ४ श्री भयडदेवेन ap
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org