________________
प्रबन्धचिन्तामणिः।
[ प्रथमः धनलवलोलुमैर्भवद्भिः स पूर्वजकलङ्क उत्सृज्य पुनर्नवीकृतः । तदनन्तरं राज्ञा शस्त्रागारान्निजं धनुरुपानीय यो भवत्सु बलवान् स इदमारोपयविति समादिष्टे सर्वाभिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्योभिदधे२१) आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽनुजीविनाम् ।
पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥ इति नीतिशास्त्रोपदेशादस्मास्वशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः । अतो राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः । अनेन राज्ञा भट्टारिकाश्रीयोगीश्वरीप्रासादः कृतः ।
२२ अनेन राज्ञा वर्षाणि ३५ राज्यं कृतं । सं. ८९७ पूर्व वर्ष २५ श्री क्षेमराजेन राज्यं कृतं । सं. ९२२ पूर्व वर्ष २९ श्रीभूयडेन राज्यं कृतं । अनेन श्रीपत्तने श्रीभूयडेश्वरप्रासादः कारितः । सं. ९५१ पूर्व श्रीवैरिसिंहेन ( श्रीवीरसिंहेन B) वर्षाणि २५ राज्यं कृतं । सं. ९७६ पूर्व वर्ष १५ श्री रत्नादित्येन राज्यं कृतं । सं. ९९१ पूर्व वर्षाणि ७ श्रीसामन्तसिंहेन राज्यं कृतं । एवं चापोत्कटवंशे सप्त नृपतयोऽभूवन् विक्रमकालतः संख्यया वर्षाणि ९९८* ॥
१ उन्मृज्य a B H K २ वाधिज्यं विदधे H ३ द्विजन्मनाम् A B H ४ दाज्ञाभङ्गात् aK __* मुद्रितपुस्तके a आदर्शानुसारी निम्नलिखितः पाठः। संव० ८७८ श्रावणसुदि ४ निरुद्धं वर्ष १७ मास १ दिन १ श्रीयोगराजेन राज्यं कृतं ॥ सं० ८७८ ! श्रावणसुदि ५ उत्तराषाढनक्षत्रे धनुर्लग्ने रत्नादित्यस्य राज्याभिषेको बभूव । सं० ८८१ कार्तिकसुदि ९ निरुद्धं वर्ष ३ मास ३ दिनान्यनेन राज्ञा राज्यं चक्रे ॥ सं० ८९८ ! वर्षे ज्येष्टसुदि १३ शनौ हस्तनक्षत्रे सिंहलग्ने श्रीक्षेमराजदेवस्य राज्याभिषेकः समजनि । सं० ९२२ ! भाद्रपदसुदि १५ रवौ वर्ष ३८ ! मास ३ दिन १० अस्य राज्ञो राज्यनिबन्धः । ५ । सं० ९३५ ! वर्ष आश्विनसुदि १ सोमे रोहिणीनक्षत्रे कुम्भलग्ने श्रीचामुण्डराजदेवस्य पट्टाभिषेकः समजनि ॥६॥ सं० ९३८ माघवदि ! ३ सोमे निरुद्धं वर्ष १३ ! मास ४ दिन १६ अनेन राज्ञा राज्य विदधे ॥ सं० ९३८ । माधवदि १४ भौमे स्वातिनक्षत्रे सिंहलग्ने श्रीआकडदेवो राज्थे उपविष्टः । भनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org