SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वनराजप्रबन्धः । प्रकाशः] २०) गूर्जराणामिदं राज्यं वनराजाप्रभृत्यपि । ___ जैनैस्तु स्थापितं मन्त्रैस्तद्वेषी नैव नन्दति ॥ १ ॥ २० पूर्व निरुद्धं वर्ष ५९ मास २ दिन २१ श्रीवनराजेन राज्यं कृतं। श्रीवनराजस्य सर्वायुर्वर्ष १०९ मास २ दिन २१। संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्या सिंहलग्ने वहमाने वनराजसुतस्य श्रीयोगराजस्य राज्याभिषेकस्तस्य त्रयः कुमाराः ॥ २१ अन्यस्मिन्नवसरे क्षेमराजनाम्ना कुमारेण राजेति विज्ञपयांचक्रे । देशान्तरीयस्य राज्ञः प्रवणानि वात्यावर्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसोमेश्वरपत्तने समागतानि । ततस्तेषु तेनस्वितुरंगमसहस्रं तथा गजानां सार्द्धशती संख्यया परवस्तूनि कोटिसंख्यया। एतावत्सर्वं निजदेशोपरि स्वदेशमध्ये भूत्वा संचरिष्यति । यदि स्वाम्यादिशति तदा तदानीयते इति विज्ञप्तेन राज्ञा तन्निषेधः कृतः। तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेशप्रान्तभूमौ सैन्यं सज्जीकृत्याज्ञातचौरवृत्त्या तत्सर्वमाच्छिद्य स्वपितुरुपनिन्ये । अन्तः कुपितेन मौनावलम्बिना राज्ञा न किममि तेषां प्रतिपत्त्यादि कृतं । तत्सर्वं नृपतिसात्कृत्वा क्षेमराजकुमारेणैतत्कार्य सुन्दरं कृतमसुन्दरं वेति विज्ञप्तो नृपतिर्बभाष । यदि सुन्दरमुच्यते परस्वलुण्टनपातकं यद्यसुन्दरमभिधीयते तदा भवदीयचेतसो विरक्तिः । अतो मौनमेव श्रेय इति सिद्धं । श्रूयतां भवदीयप्रथमप्रश्ने परवित्तापत्हतौ निषेधहेतुः । यदा परमण्डलेषु नृपतयः सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गुर्नरदेशे चरटराज्यमित्युपहसन्ति । अस्मत्स्थानपुरुषैरित्यादिस्वरूपं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिनिजपूर्वजवैमनस्यमावहन्तो दूयामहे । यद्ययं पूर्वजकलङ्कः सर्वलोकन्हदये विस्मृतिमावहति तदा समस्तराजपतिषु वयमपि राजशब्दं लभामहे । १ तन नन्दति B_H २ पूर्व वर्ष ६० श्रीवनराजेन B संवत् ८०२ पूर्व वर्ष ६० श्री वनराजेन राज्यं कृतं । संवत् ८६२ बर्षे श्रीयोगराजस्य राज्याभिषेकः इत्येवं पाठः L आदर्श. ३ शुद्ध १३ A B ४ सार्द्धघटासंख्ययारूपं H साईशत b सिद्धघटा रू. १८ b ५ प्रत्यादिष्टं B H ६ अस्मत्पुरुषैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy