________________
प्रबन्धचिन्तामणिः।
[प्रथमः सेनापतिकटके पतितः । तं निहत्य दशसहस्रसंख्यास्तद्वाजिनोऽष्टादशगनरूपाणि चादाय यावदावासान् दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षः पलायांचक्रे ॥
२५ तेन राज्ञा श्रीपत्तने श्रीमूलराजवसहिका कारिता । श्रीमूलदेवस्वामिनः प्रासादश्च । तथा नित्यं नित्यं सोमवासरे श्रीसोमेश्वरपत्तने यात्रायां शिवभक्त्या व्रजस्तद्भक्तिपरितुष्टः सोमनाथ उपदेशदानपूर्व मण्डलीनगरमागतः । तेन राज्ञा तत्र मूलेश्वर इति प्रासादः कारितः । तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य तद्भक्तिपरितुष्टः श्रीसोमेश्वरः ससागर एव भवन्नगरे समेष्यामीत्यभिधाय श्रीमदणहिल्लपुरेऽवतारमकरोत् । समागतसागरसंकेतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुषप्रासादः कारितः । अथ तस्य चिन्तायकमुचितं तपस्विनं कञ्चिदालोकमानः सरस्वतीसरित्तीरे एकान्तरोपवासपारणकेऽनिर्दिष्टपञ्चग्रासभिक्षाहारं कन्र्थंडिनामानं स तपस्विनमश्रौषीत् । यावत्तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति नृपतिरालोक्य तेन राज्ञा कथं कन्था कम्पते इति पृष्टो नृपेण सह वार्ता कर्तुमक्षमतयेह ज्वर आरोपित इत्यभिहिते पार्थिवः प्राह । यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्वथा प्रहीयते इति राजादेशे___२४) उपतिष्ठन्तु मे रोगा ये केचित्पूर्वसंचिताः ।
आँनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥ इति शिवपुराणोक्तान्यधीयन्नभुक्तं कर्म न क्षीयते इति जानन् कथममुं विसृजामीति तेनाभिहिते त्रिपुरुषधर्मस्थानस्य चिन्तायकत्वाय नृपतिरभ्यर्थयामास।
१ सपादलक्षनपतिः BH २ मञ्जाल देव ap ३ श्रीपत्तने P ४ शिवभक्ततया BH५ मुपागतः B ६ कान्थडि B H ७ आनृण्यं B
८ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ इति संपूर्णः श्लोकः K आदर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org