________________
१५
प्रकाशः]
विक्रमार्कप्रबन्धः। १८ कळं काउं मुक्कं च साहसं मइलिअं च अप्पाणं । ____ अजरामरं न पत्तं हा विक्कम हारिओ जम्मो ॥
१२ कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणेप्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः। साम्प्रतं धर्मौषधमेव बलवत् । प्रकृतेविकृतिरुत्पातः । जीवितलोलुपतया लोकोत्तरां सत्वप्रकृतिमपहाय काकमांसमभिलषन्सर्वथा न जीवसीति वैद्येनाभिहितस्तं पारितोषिकदानपूर्व परमार्थबान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमार्थभ्यो वितीर्य राजलोकं नगरलोकमापृछ्य विजने कापि धवलगृहप्रदेशे तत्कालोचितस्त्रानदानदेवार्चनपूर्व दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणोत्क्रान्ति करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं स ददर्श । अञ्जलिं बद्ध्वा प्रणामपूर्व का यूयमिति पृष्टे । न वाग्विस्तरार्होऽयमवसरः । आपृच्छनायैव वयमुपागता इत्यभिधायाप्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे । नचीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीनामेकमेवं रूपं नासया हीनमिति जिज्ञासुरस्मि । अथ ताः सहस्ततालं विहस्य निजमपराधमस्मासु संभावयसीति ता मौनमाश्रिता नृपेणोचिरे । खर्गलोकस्थितासु भवतीषु ममापराधः कथं संभाव्यत इति नृपवचःप्रान्ते तासां मुंख्यया सुमुख्याचचक्षे । राजन्प्राग्पुण्योदयेन साम्प्रतं नवापि निधयस्तव सौधेऽवतेरुस्तदधिष्ठान्यो वयं । भवता देवतारूपेणाजन्मावधि महादानानि ददतैकस्यैव निधेरेतावदेव व्यवकलितं यावत्त्वं नासाग्रं न पश्यसि । इत्थं तदुक्तिमाकर्ण्य ललाटं करतलेन स्पृशन् यद्यहं नवनिधीन्वेद्मि तदा नवभ्यः पुरुषे
१ म्लानदान P २ रूपवतीनामेव P २ ता दत्तहस्त A B ता दत्तस्वहस्त H ३ निजमेवापराधं A B ४ तासु मुख्यया P ताभ्यो मुख्यया B ५ नवनिधीनवतीर्णान्वेधि A BH
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org