________________
प्रबन्धचिन्तामणिः ।
[प्रथमः तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रोऽकस्मान्निद्राभङ्गमासाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्डलसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयेति सावधानं नृपे शृण्वति स गृहिण्योचे । अयं नृपः पृथिवीमनृणां कुर्वन्मम कन्यासप्तकस्य विवाहाय द्रव्यमयच्छञ्शान्तिकर्मणा कथं व्यसनान्मोचयितुमुचित इति तद्वचसा सर्वथा परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्तिस्तम्भ विस्मरन् राज्यं चिरं चकार* ॥
१ ताडयतः। उपरि च फणी पुच्छावलम्वेनाधोभूय कुसुमगन्धिनृपशिरसि देशाय पुनः पुनः फूत्कुर्वति । अत्रान्तरे B २ कीर्तिस्तम्भवार्ती H * चकारः
स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् । एलोशीरलवङ्गचन्दनलसत्कर्पूरपालीमिलत्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥१॥ यदा जीवश्च शुक्रश्च परितश्चन्द्रमण्डलम् । परिवेष्टयतस्तद्वै राजा कष्टेन जीवति ॥ २ ॥
इति विक्रमार्कस्य निर्गर्वताप्रबन्धः ॥ अथान्यस्यां निशि ( इत्यादि भोजवृत्तान्ते द्रष्टव्यं, तत्रायं विशेषः ) एका रजकी राज्ञा पृष्टा । वस्त्राणि विरूपाणि कथं ससैकतानि । तयोक्तं
यासौ दक्षिणदक्षिणार्णववधूरेवाप्रतिस्पर्द्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता । तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं त्वद्दण्डद्विरदेन्द्रदन्तमुशलप्रक्षोभितैः पांशुभिः ॥१॥ रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । स्वाङ्गपृष्टकसहितं लक्षं भ्रक्षेपमात्रेण ॥ २॥ चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ ।
चातुः प्रहरिकं दानं दत्तं विक्रमभूभुजा ॥३॥ इत्यधिको प्रबन्धौ B आदर्श मुद्रितपुस्तके च परिशिष्ठे ३३२ पृष्टे प्रदत्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org