________________
प्रकाशः]
विक्रमाप्रबन्धः। श्रीसिद्धसेनोपदेशं पुनरुक्तं निणीय पृथिवीमनृणां कर्तुमारेभे'॥ १० अथ मत्सदृशः कोपि जैनो नृपतिर्भावीति पृष्टे श्रीसिद्धसेनसूरिभिरभिदधे१७ पुन्ने वाससहस्से सयम्मि वरिसाण नवनवइ अहिए। ___ होही कुमरनरिन्दो तुह विकमराय सारित्थो ।
११ अथान्यस्मिन्नवसरे जगत्यनृणीक्रियमाणे निजौदार्यगुणेनाहंकृति दधानः प्रातः कीर्तिस्तम्भ कारयिष्यामीति चिन्तयंस्तस्मिन्नेव निशीथे वीरचर्यया चतुष्पथान्तः परिभ्रमन् युद्धयमानवृषाभ्यां त्रासितः कस्यापि दारिद्योपद्रुतद्विजन्मनो जीर्णवृषभकुटीस्तम्भमध्यारूढो यावत्तिष्ठति ताव
१ अत्र नृपतिमनोनुसारी पृथ्वीरसप्रबन्धोधिको दृश्यते B आदर्शे मुद्रितपुस्तके३३० पृष्टे च ततश्चोद्धृतः-उज्जयिन्यां राजा विक्रमादित्यो भट्टमात्रेण समं महाकाले नाटकालो कनार्थ गुप्तवेषो गतः। कालान्तरितेन नागरिकसुतेन कार्यमाणे नाटके सूत्रधारमुखात्तद्वर्णनं श्रुत्वा राजापि नागरिकद्रव्यग्रहणाय मनसि लोभं कृतवान् । पश्चात्कियत्कालमतिक्रम्य तृषितो मुख्यवेश्यागृहे भट्टमात्रपाश्र्वात्पानीयं याचितवान् । तत्र वृद्धवेश्या प्रधानान् पुरुषान् भणित्वा तन्निमित्तमिक्षुरसमादातुमुपवने गता। सलकैरिक्षुदण्डान् भित्त्वा तयार्धघटेऽप्यसंभृते दुर्मनस्का करकं भृत्वा वेलाविलम्बेनागता राज्ञा इक्षुरसे पीते भट्टमात्रेण वेलाविलम्बदौमनस्यकारणं पृष्टा जगाद । अन्यदिने एकेन निर्भिन्नेक्षुदण्डेन सकरको घटो प्रियते। मद्य घटोपि न संपूरितः । तत्कारणं न ज्ञायते । भट्टमात्रेण ( पुनः) पृष्टं यूयमेव परिणतमतयस्तत्तत्कारणं जानीत ततो विचार्य निवेदयन्तु । वेश्यापि वदति। पृथ्वीपतेर्मनः प्रजासु विरुद्धं जातं तूतः पृथ्वीरसोऽपि क्षीणो जातः । इति कारणं निवेदितवती । राजापि तद्वद्धिकौशलाचमत्कृतः । स्वभुवनशयनीये सुप्त इति चिन्तितवान् । अकृतेऽपि प्रजापीडने विरुद्धचिन्तामात्रेणापि पृथ्वीरसहानिर्जाता अतः प्रजां न पीडयिष्यामीति कृतनिश्चयो नृप इति परीक्षणार्थ द्वितीयायां निशायां तृषामिषात्तद्गहे गत्वा शीघ्रमेव सहर्षया तयानीतमिक्षुरसं पीत्वा शयनीये सुप्तवान् । वेश्यापि भट्टमात्रपृष्टा राज्ञः प्रजासु हृष्टं मनो निवेदितवती । राज्ञापि आत्मनिशावृत्तान्तं निवेद्य पुनरपि तस्यै वृद्धवेश्यायै परचित्तोपलक्षणतुष्टेन हारो दत्तः । इति नृपतिमनो. नुसारी पृथ्वीरसप्रबन्धः ॥ २ पुण्णे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org