________________
प्रबन्धचिन्तामणिः। . [प्रथमः भ्यस्तान्समर्पयामीति देवेनाज्ञानभावाद्वञ्चित इत्युच्चरस्ताभिः कलौ भवानेवोदार इति प्रतिबोधितः परलोकमाप । ततः प्रभृति तस्य विक्रमादि. त्यस्य जगत्ययमधुनापि संवत्सरः प्रवर्तते ॥ श्रीविक्रमार्कस्य दाने विविधा प्रबन्धाः ॥
२ अथ शालिवाहनप्रबन्धः॥ १३ अथ दाने विद्वत्तायां च श्रीशातवाहनकथा यथाश्रुता ज्ञेया । तत्पूर्वभवकथा चैवं । श्रीप्रतिष्ठानपुरे शातवाहनभूपो राजपाटिकायां गच्छन्नगरप्रत्यासन्ननद्यां वीचिभिर्नीरतीरक्षिप्तं मत्स्यमेकं हसन्तमालोक्य प्रकृतेविकृतिरुत्पात इति भयभ्रान्तो नृपः सर्वानेव विदग्धपुरुषान्सन्देहममुं पृच्छज्ञानसागरनामानं जैनमुनि पप्रच्छ । ज्ञानातिशयेन तेन तत्पूर्वभवं विज्ञायेत्युपदिष्टं । यत्पुरातनभवे त्वमस्मिन्नेव पत्तने उच्छिन्नवंशः काष्ठभारवाहनैकवृत्तिस्तस्यामेव नद्यां भोजनावसरे संनिहितशिलातले सक्तून्पयसालोडय नित्यमभासि । कस्मिन्नप्यहनि जैनमुनि मासोपवासपारणाहेतोः पुरो ब्रजन्तमाहूय तं सक्तुपिण्डं तस्मै प्रादात् । तस्य पात्रदानस्यातिशयात्त्वं शातवाहननृपतिरासीः स मुनिर्देवो जातस्तद्देवताधिष्ठानवशात्तं काष्ठभारवाहिनो जीवं त्वां नृपतितयोपलक्ष्य प्रमोदाद्धसितवान् । तत्कथासंग्रहश्चैवं
* वरिसाणि सयच्छकतिगसीगदाय जिणन्दवीरस्स । णिव्वाणं सम्पत्ते उव्वण्णो विकमो राई ॥ निर्वाणं प्राप्तस्य जिनेन्द्रवीरस्य त्र्यशीत्यधिकषट्शतानि वर्षाणि गतानि तदा विक्रम उत्पन्नो राजा॥ इति जैनश्रुतपरंपरा टिप्पण्यां प्रथमावृत्तिसंशोधकेनोद्धृता।
१ शातवाहनराजा प्रबन्धा लिख्यन्ते B २ प्रथमसंस्करणे प्रबन्धान्तरात्शा. लिवाहनकथा टिप्पण्यामुद्धृता पृ. २४-३१. ३ वृत्तिशब्दाप्रे- 'अहो कोपि दरिद्राणां दारिद्रयव्याधिरद्भुतः । घृष्टिक्वाथेऽपि यः पीयमाने नक्षयभूरभूत् ॥ एषोऽधिकः श्लोक: B आदर्शे वर्तते ४ जैनमुनिं दृष्टा पूर्वभवे मया कस्मैचिन्न ददे तस्येदं फलं यदुक्तः-रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त खेदमुपयासि कथं वृथा त्वं । पुण्यं कुरुष्व यदि तेषु तवास्ति वांच्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ इत्थं चिन्तयित्वा मुनिमाकार्य तं सक्तुपिण्डं एवं पाठ Bआदर्श ५ शालवाहननपतिरासी: P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org