________________
प्रबन्धचिन्तामणिः।
[प्रथमः सिना श्रीसङ्घनानुगम्यमानं बन्दिवृन्दैः श्रीसर्वज्ञपुत्र इति स्तूयमानं श्रीसिद्धसेनाचार्यमागच्छन्तमवलोक्य सर्वज्ञपुत्र इति वचसा कुपितः । तत्सर्वज्ञतापरीक्षार्थं तस्मै मानसं नमस्कारमकरोत् । ६ आप्ते दर्शनमागते दशशती संभाषिते चायुतं
यद्वाचा च हसेऽहमाशु भवता लक्षोस्य विश्राण्यताम् । -सभ्या भवन्ति । पुनः प्रतिवादिनोचे। अत्रैव वादः । अमी गोपाः सभ्याः। तेप्याकारिताः । प्रथमं सिद्धसेनेनोपन्यासो विहितो गीर्वाणवाण्या । तदनु वृद्धवादिना गण्ठीयकं बध्वा गोपकुण्डकं विधाय प्रोचे ॥ नवि मारीयए नवि चोरीयए परदा. रागमण निवारीयए। थोवावि हु थोवं दईयए इम सन्गि टगमगु जाईयए ॥ (पद्यमिदं प्रभावकचरिते (पृ.१०२) श्रीवृद्धवादिप्रबन्धे श्लो.१६१.) एवं पठति गोपा नृत्यन्ति । तैरुक्तमनेन जितं त्वं किमपि न वेत्सि । ततो वृद्धवादिना पुरे गत्वा वाद विधाय जितः शिष्यो बभूव । ततः सिद्धसेनदिवाकरण गुरुचरणसंवाहनां विधाय मानेन गुरव उक्ताः । यदि यूयमादेशं ददत तदाहमागमं संस्कृतेन करोमि, गुरुभिरुक्तं । तव महत्पापमजनि त्वं गुरुगच्छयोग्यो न गच्छेः । तेनोक्तं, प्रायश्चित्तं ददत । गुरुभिरुक्तं । यत्र जिनधर्मो न तत्र जिनप्रभावनां विधाय पुनः समागन्तव्यमित्यवधूतवेषेण चलितः । द्वादशवर्षाणि यावदन्यत्र परिभ्रम्य तदनन्तरं मालवके गूढमहाकालप्रासादे शिवाभिमुखं चरणौ कृत्वा चरणत्राणौ द्वारकाष्ठे नियोज्य सुप्तः । तत्र वारितोपि तथैव । अत्रान्तरे राज्ञा रक्षिकपुरुषान् प्रेषयित्वोपद्रुतः । तावतान्तः पुरे खप्रदीपनं लग्नं, राज्ञा समागत्य पृष्टः । कथं शिवस्य न नमस्कारं विदधासि । तेनोक्तं मम नमोऽसौ न सहते । विधेहि । तेन सकललोकसमक्षम्. प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् ।
माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥१॥ इति द्वात्रिंशद्वात्रिंशतिका कृता, तदा लिङ्गमध्यादवन्तिसुकुमालद्वात्रिंशत्पत्नीकारितग्रासादे श्रीपार्श्वनाथबिम्बं प्रकटीभूतं नमस्कृतं च । असौ सहते नमस्कार तदाप्रभृति गूढमहाकालोऽजनि । राजा विक्रमार्कः परमजनोऽभूत् । सिद्धसेनोऽपि स्वगुरुपाा समेत्य सूरिमन्त्रं प्राप्यैकदोजयिन्यामेव चातुर्मासकं स्थितः ॥ १ बन्दिपुत्रैः A P २ आप्ते दर्शनमिति पद्य A B L H पुस्तकेषु नास्ति किन्तु जैनसिंहासनद्वात्रिंशिकायामुपलभ्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org