SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] विक्रमाप्रबन्धः। निष्काणां परितोषके मम सदा कोटीर्मदाज्ञा परा कोशाधीश सदेति विक्रमनृपश्चक्रे वदान्यस्थितिम् ॥ सिद्धसेनोऽपि पूर्वगतश्रुतबलेन नृपभावमवगम्य दक्षिणपाणिमुदस्य धर्मलाभाशिषं ददौ। नृपतिनाशीर्वादहेतुं पृष्टः सन्महर्षिस्तव मानसनमस्कारस्याशीर्वादः प्रदीयमानोऽस्तीत्यभिहिते तज्ज्ञानचमत्कृतेन राज्ञा तत्पारितोषिके सुवर्णकोटियंतीयत ॥ ८ अथान्यस्मिन्नवसरे राज्ञा कोशाध्यक्षस्तस्मै दापितसुर्वणवृत्तान्तं पृष्टः प्राह । यद्धर्मवहिकायां श्लोकबन्धेन मया सुवर्णदानं निहितम् । तथाहि ७ धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । ___ सूरये सिद्धसेनाय ददौ कोटि नराधिपः ॥ ततः श्रीसिद्धसेनसूरीन्सभायामाकार्य तत्सुवर्ण गृह्यतामिति प्रोक्ते वृथा तृप्तस्य भोजनमित्युच्चारपुरःसरमनेन सुवर्णेन ऋणग्रस्तामवनीमनृणीं कुरु इत्युपदिष्टे तत्सन्तोषपरितुष्टेन राज्ञा तदङ्गीकृतम् । ८ दिक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ १॥ ९ दीयन्तां दशलक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ २ ॥ . १० सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठिं न वक्षः परयोषितः ॥३॥ १ पूर्वगतबलेन P २ पद्यमिदं जैनसिंहासनद्वात्रिंशिकायां प्रभावकचरिते श्रीवृद्धवादिप्रबन्धे ( श्लो. ६४ ) च वर्तते. कथावल्यां च पद्यस्यास्य प्राकृतरूपं दृश्यते ( अपभ्रंशकाव्यत्रयी पृ.७४ टि. १) ३ धराधिपः B H ४ वृथा भुक्तस्य A B ५ पद्यानि इत आरभ्य 'अष्टौ' पर्यन्तानि न सन्ति A BH पुस्तकेषु ८,१०,१२, पद्यानि प्रभावकचरिते श्रीवृद्धवादिप्रबन्धे वर्तन्ते । तान्येव १४ च भोजप्रबन्धेऽपि । १०,११,१२,१३,१४, पद्यानि सुभाषितावल्यां ( २४५२, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy