________________
प्रकाशः]
विक्रमाप्रबन्धः। श्रीविक्रमः प्राह । उदरं विदार्य तव तद्विधमन्त्रं दर्शयिष्यामीति वद. न्द्वात्रिंशतोऽधिकमिदं सत्वलक्षणं तव नावगतमिति पारितोषिकदानपूर्वक नृपस्तं विससर्ज ॥ इति सत्त्वपराक्षाप्रबन्धः ॥
६ अथ कस्मिंश्चिदवसरे परपुरंप्रवेशविद्यया निराकृताः सर्वा अपि विफलाः कला इति निशम्य तदधिगमाय श्रीपर्वते भैरवानन्दयोगिनःसमीपे श्रीविक्रमस्तं चिरमाररॊध । तत्पूर्वसेवकेन केनापि द्विजातिना राज्ञोऽने इति कथितं । यत्त्वया मां विहाय परपुरप्रवेशविद्या गुरोर्नादेया । इत्युपरुद्धो नृपो विद्यादानोद्यतं गुरुं विज्ञपयामास । यत्प्रथममस्मै द्विजाय विद्यां देहि पश्चान्मह्यं । हे राजन्नयं विद्यायाः सर्वथाऽनर्ह इति गुरुणोदिते भूयोभूयस्तव पश्चात्तापो भविष्यतीत्युपदिश्य नृपोपरोधात्तेन विप्राय विद्या प्रदत्ता । ततः प्रत्यावृत्तौ द्वावप्युज्जयिनीं प्राप्य पट्टहस्तिविपत्तिविषण्णं राजलोकमालोक्य परपुरप्रवेशविद्यानुभवनिमित्तं च राजा निजगजशरीरे आत्मानं न्यवेशयत् । तद्यथा
५ भूपः प्राहरिके द्विजे निजगजस्याङ्गेऽविशद्विद्यया विप्रो भूपवपुर्विवेश नृपतिः क्रीडाशुकोऽभूत्ततः । पल्लीगोत्रनिवेशितात्मनि नृपे व्यामृश्य देव्या मृति विप्रः कीरमजीवयन्निजतनुं श्रीविक्रमो लब्धवान् ॥
इत्थं विक्रमार्कस्य परपुरप्रवेश विद्या सिद्धा ॥ ७ अथान्यस्मिन्नवसरे श्रीविक्रमो राजपाटिकायां व्रजस्तन्नगरनिवा१ समाप्तिसूचकमिदं वाक्यं मु. पुस्तके नास्ति २ पुरप्रवेशविधया a b ३ विनाकृताःab ४ माराध्य CE ५द्विजन्मनि A ६ पल्ली गनिवेशित B ७ अत्र निम्ना. वतारितः प्रबन्धोधिको दृश्यते B आदर्शे प्रथमावृत्तिपरिशिष्ट ३२८ पृष्ठे च ततोऽत्रोद्धृतः । एकदा नृपो गुरुवन्दनाय गतः तत्र वृद्धं कमपि तपस्विनं पठन्तं वन्दयामास तेन नाशी निगदिता पठनव्यग्रेण । राज्ञोक्तं वृद्ध पठन् मुशलं फुल्लावयिष्यसि । तदवगम्य तेन पठित्वा सुरिपदे प्राप्ते तस्यैव राज्ञः सदसि गत्वा मुशलमानाय्यालवालं विधाय श्रीऋषभदेवस्तवेन मुशलं पुष्पयित्वा गतः। तावता सिद्धसेनेनापि तदवगत्य वादाय पृष्ठे गतम् । परेण केतलारसप्रामं व्रजन् वृद्धवादी रुद्धः वादं विधेहि । तेनोक्तं । पुरे गम्यते तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org