________________
प्रबन्धचिन्तामणिः ।
[ प्रथमः
४ अथान्यस्मिन्नवसरे कश्चिद्विधपुरुषः करकृतले | हम यकृशतरदारिपुत्रको द्वाःस्थनिवेदितो नृपं प्राह । स्वामिन्भवता नाथेन प्रथितायामवन्त्यां सर्वाण्यपि वस्तूनि सत्वरमत्र विक्रयं यान्ति लभ्यन्ते चेति प्रसिद्धिं बुद्ध्वा चतुरशीतिसंख्येषु चतुः पथेष्वहोरात्रं विक्रयाय दारिद्यपुत्रको भ्रामितोऽपि केनापि न गृहीतः । प्रत्युताहं निर्भत्सित इति नग - र्या यथावस्थितं कलङ्कं महाराज्ञे विज्ञप्य यथागतं व्रजामीत्यापृच्छन्नस्मि । तदैव तं महान्तं कलङ्कपङ्कं पुर्याः पर्यालोच्य दीनारलक्षं तस्मै प्रदाय नृपस्तं लोहपुत्रकं कोशे निवेशयामास । तस्यामेव निशि प्रथमयामे सुखसुप्तस्य राज्ञः समीपे गंजाधिष्ठातृदेवतं द्वितीययामे हयाधिष्ठातृदैवतं तृतीययामे लक्ष्मीश्चाविर्भूय महाराज्ञा दारिद्र्यपुत्रके क्रीते नास्माकमिहावस्थातुमुचितमित्या पृच्छय राज्ञः साहसभङ्गो माभूदित्यनुज्ञातानि तानि जग्मुः । चतुर्थयामे तु कश्चिदुदारपुरुषो दिव्यतेजोमयमूर्तिः प्रादुभूयाहं सत्त्वनामा भवन्तमाभवं श्रितो गन्तुमापृच्छे इत्युदिते करतलेन नृपः कृपाणिकामादाय यावदात्मघाताय व्यवस्यति तावत्तेनैव करे गृहीत्वा तुष्टोऽस्मीत्यभिधाय स्खलितः । गजाद्यधिष्टातृणि त्रीणि दैवतानि प्रत्यावृत्य नृपं प्रोचुः । गमनसंकेतव्याघातिना सत्त्वेन विप्रलब्धानां नृपं विहाय नास्माकं गमनमुचितमिति तान्यप्ययत्नं तस्थुः ॥ इति विक्रमादित्यसत्त्वप्रबन्धः * "
५ अथान्यस्मिन्नवसरे सभास्थितं श्रीविक्रमं सामुद्रिकशास्त्रवेदी कश्चिद्वैदेशिको द्वाःस्थनिवेदितः प्रविश्य नृपलक्षणानि निरीक्षमाणः शिरोधूननपरो नृपेण स विषादकारणं पृष्ट उचे । यत्त्वां सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्मीं भुञ्जानमवेक्ष्य सामुद्रिकशास्त्रे निर्वेदपरोऽभवं । तत्किमपि कर्बुरान्त्रं न पश्यामि यत्प्रभावेण त्वमपि राज्यं करोषीति तद्वाक्यानन्तरं कृपाणिकामांकृष्य यावदुदरे निधत्ते तावत्तेन किमेतदिति पृष्ठः
१ दरिद्रपुत्रको २ दरिद्र लोहपुत्रकं H ३ राज्याधिष्ठातृ P ४ तान्य प्रयत्नं तस्थुः । * प्रबन्धोऽयं सिं. द्वा. यामपि वर्तते ५ मादाय P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org