________________
प्रकाशः]
विक्रमाप्रबन्धः। धापाल इति तया निश्चिक्ये । स तां तदवज्ञामाकलय्य कालिका देवी विद्वत्ताकृते आरराधे । पुत्रीवैधव्यभीतेन राज्ञा निशि च्छद्मना दासी प्रहित्य तवाहं तुष्टास्मीत्यभिधाय यावत्स उत्थाप्यते तावद्विप्लवमीता कालिकैव देवी प्रत्यक्षीभूय तमनुजग्राह । तद्वृत्तान्तावबोधात्प्रमुदितया राजकन्ययर तत्रागत्यास्ति कश्चिद्वाग्विशेष इत्यभिहिते स तदैव कालि. दासनाम्ना प्रसिद्धः कुमारसंभवप्रभृतिमहाकाव्यत्रयं षट्प्रबन्धान चयामास । इति कालिदासोत्पत्तिप्रबन्धः ॥ __३ अन्यदा तन्नगरवास्तव्यो दान्ताभिधानश्रेष्ठी सभासंस्थितं विक्रमार्कमुपायनपाणिरुपागत्य प्रणामपूर्वकं विज्ञपयामास । स्वामिन्मया शुभे मुहूर्ते प्रधानवर्द्धकिभिर्धवलगृहं कारितं तत्र महतोत्सवेन प्रवेशः कृतः । यावदहं तत्र निशीथे पत्यङ्कस्थितः सुप्तजाप्रदवस्थया तिष्ठामि तावत्पतामीत्याकस्मिकी गिरं निशम्य भयभ्रान्तो मा पतेत्युदीरयस्तदैव पलायनमकार्ष । तस्य धवलगृहस्य सम्बन्धे नैमित्तिकैः स्थपतिभिश्च यथावसरमहादानादिभिः सत्कारैर्वृथादण्डित इत्यर्थे देवः प्रमाणं । तमुदन्तं सम्यगवार्य तदुक्तं तद्धवलगृहमूल्यं लक्षत्रयं तस्मै प्रदाय संध्यासर्वावसरानन्तरं तस्मिन्नात्मीयीकृते सौधे श्रीविक्रमः सुखं प्रसुप्तः । तामेव पतामीति गिरमाकासमसाहसिकतया सत्वरं पतेत्युदीरयन्समीपे पतितं सुवर्णपुरुषं प्राप । इत्थं सुवर्णपुरुषसिद्धिः ॥
१ माराधयितुमुपविष्टः न भुंक्ते दिनाष्टकं जातं पुत्री B २ कालिकानाम्नी दासी A B ३ महाकाव्यप्रभृतीन्पद्यबन्धान् म महाकाव्यप्रबन्धान C कुमारसंभवमेघदूतरघुप्रभृतीन् षट् प्रबन्धान B ४ रचयामास ॥ इति कालिदासप्रबन्धः ॥ A B इतिकालिदासोत्पत्तिप्रबन्ध इति वाक्यं मुद्रिते नास्ति ५ अथा. न्यदा C अन्यदा तनगरवास्तव्यो दान्ताभिधः H ६ स्थितः पुरुषमेकमवलोक्य B ७ यथावसरं महादानादिभिः सत्कारैश्च वृथाहं दण्डितः a यथावसरमहीनादिभिः P महणादिभिः A B ८ संध्यायां सर्वावसरानन्तरं A BP * इयं कथा सिंहासनद्वात्रिंशिकायामपि वर्तते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org