SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ पञ्चमः __इत्युक्तियुक्तिभ्यां प्रबोध्य ते महर्षयः स्वं पदं भेजुः । इत्थं बोधितस्यापि तस्य मिथ्यात्वध्वान्तान्तरितस्य कनकभ्रान्तिरिव तथात्राप्युन्मत्सरोच्छेकात्तद्भक्तानभिचारकर्मणा कांश्चन पीडयन् कांश्चन व्यापादयन् तद्वृत्तान्तं तेभ्यो ज्ञानातिशयादवधार्योपसर्गहरं पासमिति नूतनं स्तोत्रं रचयांचक्रुः । इति वराहमिहिरप्रबन्धः ॥ २१ अथ ढकाभिधानभूभृति रणसिंहनामा राजपुत्रस्तन्नन्दनां भूपलनाम्नी सौन्दर्यनिर्जितनागलोकबालामालोक्य जातानुरागतया तां सेवमानस्य तस्य वासुकेः सुतो नागार्जुननामा समजनि । तेन पातालपालेन सुतस्नेहमोहितमनसा सर्वासामप्यौषधीनां फलानि मूलानि दलानि च भोजितस्तत्प्रभावान्महासिद्धिभिरलंकृतः सिद्धपुरुषतया पृथ्वीं विगाहमानः शातवाहननृपतेः कलागुरुगरीयसी प्रतिष्ठामुपागतोऽपि गगनगामिनी विद्यामध्येतुं श्रीपादलिप्तपुरे पादलिप्ताचार्यान् सेवमानो मानोच्छ्रितमंति - जनावसरे पदे लेपप्रमाणेन गगनोत्पतितान् श्रीअष्टापदप्रभृतीनि तीर्थानि नमस्कृत्य तेषां स्वस्थानमुपेयुषां पादौ प्रक्षाल्य ज्ञातसप्तोत्तरशतसंख्यमहौषधीनामास्वादवर्णघ्राणादिभिनिर्णीय च गुरूनवगणय्य कृतपदलेपः कृकवाकुकलापिवदुत्पत्यावटतटे निपतंश्च तद्रूणश्रोणिजर्जरिताङ्गो गुरुभिः किमेतदित्यनुयुक्तो यथावद्वृत्तान्तं निवेदयन् तच्चातुर्यचमत्कृतचेतोभिस्तच्छिरसि पद्महस्तदानपूर्वकं पाष्टीकतन्दुलोदकेन तानि भेषजान्यभ्यञ्ज्य तत्पादलेपाद्गनगामी भूया इति तदनुग्रहादेकां सिद्धिमासाद्य, श्रीपार्श्वनाथपुरतः साध्यमानो रसः समस्तस्त्रैणलक्षणोपलक्षितपतिव्रतवनितामर्थमानः कोटिवेधी भवतीति तन्मुखादाकर्ण्य च यत्पुरा समुद्रविजयदाशाहेण त्रिकालवेदिनः श्रीनेमिनाथस्य मुखान्महातिशायि श्रुत्वा श्रीपार्श्वना १ धत्तुरितस्य कनकभ्रान्तिरिव तेषु मत्सरोच्छेकात्तद्भक्तान् H * अयं वराहमिहिरप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा, भाउदाजीना लिखितम् । ३ पातालव्यालेन H ३ व्रतमति P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy