SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः । १९५ चार्य कनीयांसं सोदरं विहाय नृपप्रभृतिकः स कोऽपि नास्ति य उपायनपाणिनं जगाम । स निमित्तविजिनभक्ताय शकटालमन्त्रिणे तेषां सूरीणामनागमनकारणमुपालम्भगमितं जगौ। तेन ज्ञापितास्ते महात्मानः संपूर्णश्रुतज्ञानकरतलकलितामलकफलवत्कालत्रयास्तस्य शिशोविंशतितमे दिने बिडालान्मृत्युमुपदिशन्तो वयं नागता इति तेषामुपदेशे वराहमिहिराय निवेदिते ततःप्रभृति निजकुटुम्ब तस्य शावस्यावश्यकीं तां विपदं निरोद्धं बिडालरक्षायै शतश उपायान्कुर्वन्नपि निर्णीते दिने निशीथेऽकस्माद्वालमूर्ध्नि पतितयार्गलया स बालः परलोकमवाप । ततस्तच्छोकशङ्कुमुद्दिधीर्षवः श्रीभद्रबाहुगुरवो यावत्तद्गहमायान्ति तावत्तद्गृहाङ्गणे समस्तनिमित्तशास्त्रपुस्तकान्येकत्र पिण्डीकृतानि सन्निहितदहनान्यालोक्य किमेतदिति पृष्टः सांवत्सरः समत्सरस्तान् जैनमुनीनुपालम्भयन् एतानि संदेहकारीणि धक्ष्याम्येव यैरहमपि विप्रलब्धस्तेनेति सनिर्वेदमुदिते तैः श्रुतज्ञानबलात्तजन्मलग्नं सम्यक् तस्मै निवेद्य सूक्ष्मेक्षिकया तद्हबले ज्ञापिते विंशतिदिनान्येव भवन्ति । इत्थं विरक्तावपनीतायां स ज्योतिषिक इति जगौ । यद्भवद्भिर्बिडालान्मृत्युरुपदिष्टस्तदेव व्यभिचारीति तेनाभिहिते तत्रार्गलां तामानाय्य तत्रोत्कीर्ण बिडालं दर्शयन्तो भवितव्यताव्यत्ययः किं कदापि भवतीति महर्षिभिरभिदधे । कस्मात् रुद्यते, गतः कः, परमाणेवोऽनपायाः, संस्थानविशेषनाशजन्मा शोकश्चेन्न कदापि मोहितव्यम् । २२) अभावप्रभवैर्भावैर्मायाविभवभावितैः । अभावनिष्ठपर्यन्तैः सतां न क्रियते भ्रमः ॥ १ मुपदेशभूतां वाचं वराहमिहिराय निवेदितायां P २ एतानि रोहन्मोहसंदोहकारीणि H३ कस्यात्र च . ४ कायोऽयं परमाणवः । ५ अभावनिष्ठ पर्यन्ते । ६ तम: P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy