________________
प्रबन्धचिन्तामणिः |
[ पश्चमः
तावत्तस्याः सन्निहिते निधन निर्बन्धे प्रत्यक्षीभूय जलधिरधिष्ठातृदैवतमहमिति स्वं ज्ञापयन् मा भैषीरिति तामाश्वास्य प्रति नृपं प्राह । २१) विवाहयित्वा यः कन्यां कुलजां शीलमण्डितम् ।
समदृष्ट्या न पश्येत स पापिष्ठतरः स्मृतः ॥
इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं मज्जयिष्यामीति भयभ्रान्ताया अनुनयपराया अयं मदीय एव सूनुस्तदस्मै साम्राज्योचितां नव्यां भूमिमहं दास्यामीत्यभिधाय कचित् कचित् पयांस्यपहृत्यान्तरीयान् प्रादुश्चकार । तानि सर्वाण्यपि लोकेषु कौङ्कणानीति प्रसिद्धानि । इति कौङ्कणोत्पत्तिप्रबन्धः * ।
२० अथ पाटलीपुत्रपत्तने वराहनामा कश्विद्राह्मणाङ्गभूः आजन्मनिमित्तज्ञानश्रद्धालुदुर्गतत्वादसून रक्षितुं पशून् चारयन् कापि शिलातले लग्नमालिख्याकृततद्विसर्जन: प्रदोषकाले गृहमुपेतः । कृतसमयोचितकृत्यो निशीथकाले भोजनायेोपविष्टो लग्नविसर्जनमनुस्मृत्य निरातङ्कवृत्त्या तत्र याति तावत्तदुपरि पारीन्द्रमप्युपविष्टमवगणय्य तदुदराघोभागे पाणि प्रक्षिप्य लग्नं विमृजन् सिंहरूपमपहाय प्रत्यक्षीभूय रविरेव वरं वृणु इत्युवाच । अथ समस्तनक्षत्रग्रहमण्डलं दर्शयेति वरं प्रार्थयमानः स्वविमा - ऽधिरोप्य तत्रैव नीतो वत्सरान्ते यावद्ग्रहाणां वक्रातिचारोदयास्तमनादीन् भावान् प्रत्यक्षरूपान् परीक्ष्य पुनरिहायातो मिहिरप्रसादाद्वराहमिहिर इति प्रसिद्धाख्यः श्रीनन्दनृपतेः परमां मान्यतां दधानो वाराहीसंहितेति नवं ज्योतिःशास्त्रं रचयांचकार । अथ कदाचित्स निजपुत्रजन्मावसरे निजग्रहे घटिकां निवेश्य तया शुद्धं जन्मकाललग्नं निर्णीय जातकग्रन्थप्रमाणेन ज्योतिश्चक्रे । स्वयं प्रत्यक्षीकृतग्रह चक्रज्ञानबलात्तस्य सूनोः संवत्सरशतप्रमाणमायुर्निर्णीतवान् । जन्ममहोत्सवे चैकं श्रीभद्रबाहुनामानं जैना
१९४
*
१ भयभ्रान्ताया इत्यारभ्य दास्यामीत्यन्तं वाक्यं मु. पुस्तके नास्ति कौनणोत्पतिप्रबन्धोऽयं पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org