SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः । थबिम्ब रत्नमयं निर्माप्य श्रीद्वारवत्यां प्रासादे न्यस्तं, द्वारवतीदाहानन्तरं समुद्रेण प्लावितायां तस्यां पुरि तत्र समुद्रे तस्मिन्बिम्बे तथैव विद्यमाने, कान्तीयसांयात्रिकस्य धनपतिनानो यानपात्रे देवतातिशयात् स्खलिते, इह जिनबिम्बमस्तीति दिव्यवाचा निर्णीय, नाविकांस्तत्र प्रक्षिप्य सप्तसंख्यैरामतन्तुभिः सन्दानितमुद्धृत्य निजायां पुरि चिन्तातीतलाभात् स्वयंकृतप्रासादे न्यस्तवान् । तत्सर्वातिशायि बिम्बं नागार्जुनः स्वसिद्धरससिद्धयेऽपहृत्य, सेडीतटिन्यास्तटे तदेव विन्यस्य, तत्पुरतो रससाधनाय श्रीसातवाहनस्यैकपत्नी चन्द्रलेखाभिधानां प्रतिनिशं सिद्धव्यन्तरसान्निध्यातत्रानीय रसमर्दनं कारयति स्म । इत्थं भूयो भूयस्तत्र यातायाते सति, बन्धुबुद्ध्या सा नागार्जुनपार्श्वे तदौषधीनां मर्दनहेतुं पृच्छति, सोऽपि स्वकल्पनया कोटीवेधरसस्य यथावस्थितं वृत्तान्तं निवेदयन् , तस्याश्च वचनगोचरातीतं सत्कारं कुर्वाणोऽनन्यसामान्यसौजन्यं प्रवर्धयामास । अथ कदाचित्तया निजाङ्गजयोरस्मिन् वृत्तान्ते निवेदिते तौ तल्लुब्धौ राज्यं परित्यज्य नागार्जुनसमलंकृतां भुवमागतौ, कैतवेन तस्य रसस्य जिघृक्षया गुप्तवेषौ यत्र नागार्जुनो भुङ्क्ते तत्र तामर्थदानेन परितोष्य रसवार्ता पृच्छतः । सा च तजिज्ञासया तदर्थ सलवणां रसवतीं कुर्वन्ती षण्मास्यां व्यतीतायां तस्मिन् क्षारामिति रसवती दूषयति सति, इङ्गितैः सिद्धं रसमिति ताभ्यां निवेदितवती । अथ प्रतिपन्नभागिनेयाभ्यां रसग्रसनलालसाभ्यां वासुकिना निर्णीतदर्भाङ्कुरमृत्युरिति परम्परया ज्ञाततत्त्वा भ्यां तेनैव शस्त्रेण तथैव स निजन्ने । . - स रसः संप्रेतिष्ठितत्वाद्देवताधिष्ठानाञ्च तिरोहितो बभूव । यत्र स रसःस्तम्भितस्तत्र स्तम्भनकाभिधानं श्रीपार्श्वनाथतीर्थ रसादप्यतिशायि सकललोकाभिलषितफलप्रदं । ततः कियता कालेन तबिम्बं वदनमात्र संप्रतिष्ठितदेवताधिष्ठानवशात् a D . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy