SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [प्रथमः तवानया भक्त्या प्रीणितेन मयाऽभयदानपूर्व तव राज्यं प्रदत्तं परमेतावद्भक्ष्यभोज्यानि मम सदैवोपढौकनीयानि । इत्थमुभाभ्यामपि प्रतिपन्ने कियत्यपि गते काले श्रीविक्रमेण राज्ञा निजमायुः पृष्टः । नाहं वेनि किं तु स्वामिनं विज्ञाप्यं भवन्तं ज्ञापयिष्यामीत्युक्त्वा गतः । पुनरन्यस्यां निशि समेतो महेन्द्रेण संपूर्णशतायुरादिष्ट इति तं जगौ । स राज्ञा मित्रधर्ममधिकमधिरोप्येत्युपरुद्धो यन्महेन्द्रपार्थादेकेन हायनेन हीनमधिकं वा वर्षशतं कारयेति । स तदङ्गीकृत्य भूयोऽभ्युपेतः सन्नित्युवाच । महेन्द्रेणापि न नवनवतिर्नेकोत्तरं वर्षशतं भवतीति निर्णये ज्ञाते यावत्परस्मिन्दिने तद्योग्यं भक्ष्यभोज्यादिकं निषिध्य नृपः संग्रामसज्जो भूत्वा निशि तस्थौ । तावत्तत्रैव पूर्वरीत्या समुपागतः स तद्भोज्यादिकमवीक्ष्य राजानमधिचिक्षेप। तयोश्चिरं द्वन्द्वयुद्धे जायमाने सुकृतसहायेन राज्ञा तं पृथ्वीतले पातयित्वा हृदि चरणमारोप्येष्टं दैवतं स्मरेत्यादिष्टः स नृपं जगौ । अमुनाद्भुतसाहसेन परितुष्टोऽस्मि यत्कृत्यादेशकारी अमिवेतालनामाहं तव सिद्धः । एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन राज्ञा पराक्रमाक्रान्तदिग्वलयेने षण्णवतिप्रतिनृपतिमण्डलानि स्वभोगमानिन्ये । ३ *वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्ब १ अत्यन्तभक्त्या A B H २ मेतद्भक्ष्य A B ३ विज्ञप्य भवन्तं विज्ञपयिष्यामि A विज्ञापयिष्यामि P ४ अधिरोप्याग्रहान्महेन्द्र a अधिरोप्येत्युपरुध्य P A B ५ हीनं वर्षशतं A P६ भवतीति कथितमिति निर्णये bH ७ भोजनादिकं A B भोज्यादिपाकं P८ समुपागतः स नृपं जगौ P समुपागतः तद्भोज्यादि A B ९ आदिष्टः सन् अहो अस्य करिघटाविघटनकपश्चाननस्य महत्साहसं यत्सत्त्वेन किं न ज्ञायते यतः- ..... सत्त्वैकतानवृत्तीनां प्रतिज्ञातार्थकारिणां । प्रभविष्णुर्न देवोपि किं पुनः प्राकृतो जनः ॥ एवं विमृश्य नृपं इत्यधिकः पाठः A आदर्श १० तवाद्भुत A B ११ आक्रान्तमण्डलेन C * शार्ङ्गधरपद्धत्यां ( १२५०) कस्यापीति प्रदत्तोयं श्लोकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy