SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पुनः खनीकण्ठे बाडमतां महमा तत्कालमेव प्रकाशः] विक्रमार्कप्रबन्धः । प्रत्यावृत्तः । तच्छोकशङ्कुशङ्कापनोदाय खनीवृत्तान्तज्ञापनपूर्व तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः सैहजां लोलुभतां भट्टमात्रस्य विमृश्य क्रुधा तत्कराद्रलमाच्छिद्य पुनः खनीकण्ठे प्राप्तः । २ धिग् रोहणं गिरिं दीनदारिद्यव्रणरोहण । दत्ते हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥ इत्युदीय सकललोकप्रत्यक्षं तत्रैव तद्रलमुत्सृज्य पुनर्देशान्तर पैरिभ्राम्यन्नवन्तिपरिसरं प्राप्तः । पटुपटहध्वनिमाकर्ण्य तं वृत्तान्तमवबुध्य च तं छुप्तवान् । तेन समं स राजमन्दिरे समायातः । तस्मिन्नेवापृष्टे मुहूर्ते अहोरात्रप्रमिते राज्ये सचिवैरभिषिक्तो दीर्घदर्शितयेति दध्यौ । यदस्य राज्यस्य प्रबलः कोप्यसुरः सुरो वा क्रुद्धः सन्प्रतिदिनमेकैकं नृपं संहरति नृपाभावे देशविनाशं करोति । अतो भक्| वा शक्त्या तदनुनयः समुचित इति नानाविधानि भक्ष्यभोज्यानि निर्माप्य प्रदोषसमये चन्द्रशालायां सर्वमपि सज्जीकृत्य निशारात्रिकावसैरानन्तरमारतस्तत्र भारशृङ्खलायां निहितपल्यले निजपट्टदुकूलाच्छादितमुच्छीर्षकं नियोज्य स्वयं प्रदीपच्छायामाश्रित्य कृपाणपाणिधैर्यनिर्जितजगत्रयो दिगवलोकनपरो यावदास्ते तावन्महानिशीथसमये वाताय. नद्वारेण प्रथमं धूमं ततो ज्वालां ततः साक्षाप्रेतपतिरूपमिव करालं वेतालमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयो. पभुज्य गन्धद्रव्यैश्च स्वशरीरं विलिप्य ताम्बूलास्वादनेन परितुष्टस्तत्र पल्यके समुपविश्य श्रीविक्रमं प्राह । रे मनुज अहममिवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निहन्मि । किं तु १ शोकापनोदाय A B २ किक्रमस्तदानीं सहजा A ३ व्रणरोपणम् A ४ परिभ्रमन् A BH ५ अवन्तिपरिसरे BD अवन्तिदेशपरिसरे A L ६ लुप्तवान् B ७ राज्ये B८ यथाशक्त्या भक्त्या वा A B ९ खाद्यानि निर्माय C१० माश्रितः L११ प्रेतप्रतिरूपमिव B Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy