________________
प्रकाशः ]
विक्रमार्क प्रबन्धः |
दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपाद्गलितरदनस्तं पुनर्वीक्षमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्के ॥
२ अवन्त्यां पुरि श्रीविक्रमादित्यराज्ञः सुता प्रियङ्गुमञ्जरी । साध्ययनाय वररुचिनाम्नः पण्डितस्य समर्पितों सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियद्भिवसरैरधीत्य यौवनभरे वर्त्तमाना जनकं नित्यमाराधयन्ती कदाचिद्वसन्तसमये प्रवर्त्तमाने गवाक्षे सुखासनासीना मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि संचरन्तमुपाध्यायमालोक्य वातायनच्छायासु विश्रान्तं तमुवाच । परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तल्लोलुभमवबुध्यामूनि फलानि शीतलान्युष्णानि वा तुभ्यं रोचन्त इति तद्वचनचातुरीतन्त्वमनवबुध्य तान्युष्णान्येवाभिलषामीति तेनोक्ते तदुपढौकितवस्त्राञ्चले तिर्यग् तानि मुमोच । भूतलपाताद्रजोवगुण्ठितानि करतलाभ्यामादाय स्वमुखमारुतेन तद्रजोऽपनयन् राजकन्यया सोपहास - मभिदधे । किमत्युष्णान्यमूनि वदनवातेन शिशिरीकुरुषे इति तस्याः सोपहासवचसा सामर्षः स द्विजः प्राह । रे विदग्धमानिनि गुरुवितर्कपराया भवत्याः पशुपाल एव पतिरस्तु । इति तच्छापं श्रुत्वा तयोक्तं यस्तव त्रैविद्यस्याप्याधिको विद्ययां परमगुरुस्तमेव विवाहयिष्यामीति सा प्रतिज्ञातवती । अथ श्रीविक्रमे तदुचितप्रवरवरचिन्तासमुद्रमने स पण्डितः कदाचिदभिलषितवरनिवेदनोत्सुकीकृतराजशासनादरण्यानी. मवगाहमानो ऽतितृष्णातरलितैः सर्वतः सर्वतोमुखाभावात्पशुपाल -
1
१ साहसाङ्कः A D २ कालिदासाद्यैर्महाकविभिरित्थं संस्तूयमानश्विरं प्राज्यं राज्यं बुभुजे । सांप्रतमवसरायातां श्रीकालिदासमहाकवेरुत्पत्तिं संक्षेपतो ब्रूमः ॥ अवन्त्यां AB ३ वेदगर्भनाम्नः ABH ४ प्रदत्ता B ५ अधिको विद्यतया P अधि. कविद्यया & अधिकविद्यतया ABH ६ अतितृषातरलितः B मुर्खाभावात् P
७. सर्वतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org