SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८५ प्रकाशः] प्रकीर्णकप्रबन्धाः। सृष्ट्वा संहरति प्रजो यदि तथाप्याधार्य भक्त्या मन-. स्तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ॥ ३ ॥ ८) एतस्मिन्महति प्रदोषसमये राजा त्वमेकस्ततो लक्ष्मीमम्बुरुहां पिधाय कुमुदे किं नो तनोषि श्रियः । यद्राह्मी स्थितिरत्र यच्च सुमनःश्रेणीषु संभावना त्वं तावत्कतमोऽसि तत्तिरयितुं धातापि नैव क्षमः ॥ ४ ॥ ९) सदृत्तसद्गुणमहर्हिमनर्यमूल्य कान्ताधनस्तनतटोचितचारुमूर्ते । आः पामरीकठिनकण्ठविलमभग्न हा हार हारितमहो भवता गुणित्वम् ॥ ५ ॥ कस्मिन्नप्यवसरप्रस्तावे तानि वीक्ष्य तदर्थमवगम्य तस्मिन्नन्तद्वेष दधौ । यतः१०) प्रायः संप्रति” कोपाय सन्मार्गस्योपदेशनम् । . विलूननासिकस्येव यद्वदादर्शदर्शनम् ॥ - इति न्यायात्सामर्षतया तं पदभ्रष्टं चकार । अथ स नृपतिः कदाचिद्राजपाटिकार्याः प्रत्यावृत्तो दुरवस्थमेकाकिनमुपायविधुरं तं वीक्ष्य क्रोधाद्वधाय हस्तिपकेन हस्तिनं प्रेरयामास । स तु निषादिनं प्रति प्राह । यावदहं राज्ञोऽग्रेकिञ्चिद्वच्मि तावजवान्निवार्यतां गजः । तद्वचनात्तेन तथा कृते, उमापतिधरः प्राह११) नमस्तिष्ठति धूलिधूसरवपुर्गोपृष्ठिमारोहति व्यालैः क्रीडति, नृत्यति, स्रवदसृगचर्मोद्वहन्दन्तिनः । . १ प्रजां B २ आदाय c ३ तथैव D ४ घोयीकृतमिति शार्ङ्गधरपद्धत्या मुद्धृतमिदं पद्यम् ५ महाय॑ H ६ सविसरप्रस्तावे a HC ७ सन्ति प्रको. पाय P ८ राज्यजयपाटिकायाः C ९ उदहद्दन्तिनाम् a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy