SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ૩૯ प्रबन्धचिन्तामणिः । आचाराद्बहिरेवमादिचरितैराबद्धरागो हेरः सत्यं नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् || इति तद्विज्ञानाङ्कुशेन वशंवदमनोगजो निजचरित्रे किञ्चित्सानुशयः स्वममन्दं निन्दंस्तद्व्यसनं शनैर्निषिध्य तं राजा पुनरेव प्रधानीचकार । इति लक्ष्मणसेनोमापतिधरयोः प्रबन्धः * [ पञ्चमः १२ अथ काशीनगर्यां जयचन्द्र इति नृपः प्राज्यसाम्राज्यलक्ष्मी पालयन्पङ्गुरिति बिरुदं बभार । यतो यमुनागङ्गायष्टियुगावलम्बनमन्तरेण चमूसमूहव्याकुलिततथा कापि गन्तुं न प्रभवति । कस्मिन्नप्यवसरे तत्र वास्तव्यस्य कस्यापि शालापतेः पत्नी सूहवनाम्नी सौन्दर्यनिर्जितजगत्रयस्त्रैणा भीष्मश्रीष्म जलकेलिं विधाय सुरसरितीरे तस्थुषी सा खञ्जनाक्षी व्यालमौलिस्थितं खञ्जनं वीक्ष्य तमसंभाव्यं शकुनं कस्यापि द्विजन्मनः स्नातुमायातस्य पदोर्निपत्य तद्विचारं पप्रच्छ । सनिमित्तवित् चेन्मदादेशं सदैव तनुषे तदा तव विचारमहं निवेदयामीति तेनोक्ता तव पितृनिर्विशेषस्य सा मान्यों मयाज्ञा, सदैव मूर्ध्ना तां वहामीति प्रतिज्ञापरायास्तस्याः सप्तमेऽहनि त्वमस्य नृपतेरप्रमहिषी भविष्यसीति, आदिश्य द्वावपि यथागतं जग्मतुः ॥ अथ निमित्तविदा निर्णीते वासरे स राजा राजपाटिकायाः प्रत्यावृत्तः कापि रथ्यायां नेपथ्यविहीनामपि अगण्यलावण्यपुण्याङ्गीं तां शालापति बालां विलोक्य स्वचित्तसर्वस्वचौरीमूरीकृत्यांप्रमहिषीं चकार । तदनु तथा कृतज्ञतया विप्रप्रतिज्ञां स्मरन्त्या नृपाय तस्मिन् विद्याधरनिमित्ते विज्ञप्ते पटहप्रणादपूर्वं तस्मिन् विद्याधरे आहूयमाने विद्याधराभिधानानां द्विजानां सप्तशतीमागतां विलोक्य तमे * अयं लक्ष्म १ राबद्धरागाहरे P २ सन्तोP ३ चरित्रैकवित्सानु णसेनोमापतिधरयोः : प्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् ४ सामान्यामाज्ञां सदैव मूर्ध्ना वहामि H ५ सर्वस्वं चौरीकृत्य & Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy