SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ पञ्चमः इति मया गाथार्थः सत्यापितोऽस्तीति तद्वचनानन्तरं यदस्याः प्रजायाः पापनिरताया अपुण्योदयेनावश्यंभाविपीडनावसरेऽहं नृपतीकृतः । यदि प्रजायाः परिपालनां लोकेशोऽभ्यलिखिष्यत्तदा भवत एव पट्टहस्ती पट्टाभिषेकमकरिष्यदिति तदुक्तियुक्तिभ्यां भेषजाभ्यामिव निगृहीतरुक् सकुमारो वपुः पीवरतां बभार । इति कर्मसारप्रबन्धः * । १८४ ११ अथ गौडदेशे लक्षणावत्यां नगर्यां श्रीलक्ष्मणसेनो नाम नृपतिरुमापतिधरसचिवेन सर्वबुद्धिनिधिना चिन्त्यमानराज्यश्चिरं राज्यं चकार । स त्वनेकमत्तमातङ्गसैन्यसङ्गादिव मदान्धतां दधानो मातङ्गीसङ्गपङ्ककलङ्कभाजनमजनि । उमापतिधरस्तु तद्व्यतिकरमवगम्य प्रकृतिक्रूरतया च स्वामिनोऽनालोकनीयतां च विचिन्त्य प्रकारान्तरेण तं बोधयितुं सभामण्डपस्य भारपट्टे गुप्तवृत्त्यामृनि काव्यानि लिलेख || ५) शैत्यं नाम गुणस्तवैव, तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्त्यशुचयः स्पर्शात्तवैवापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १ ॥ ६) त्वं चेत्संचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि तनुषे हानिर्न हेन्नामपि । मूर्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोऽसि किं ब्रूमहे * ॥ २ ॥ ७) छिन्नं ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्रीडति मातृभिर्यदि रतिं ध श्मशाने यदि । , * कर्मसारप्रबन्धोऽयं पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् १ अनाकलनीयतां H २ भवन्ति ९ ३ प्रश्नोत्तरमालायाः पद्यमिदम् ४ कुवलयानन्दे तथा शोभाकरस्यालंकाररत्नाकरेऽपि पद्यमिदम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy