________________
प्रकाशः] कुमारपालप्रबन्धः।
१६७ निपात्य पुनरनयैव रीत्या द्वितीयेऽपि पातिते सति कथं समुद्रसामीप्यात् शङ्खबाहुल्यमित्युच्चरन् महासाधनिकशङ्खनैव तत्सुभटतां श्लाघमानेनाहूतः कुन्ताग्रेण प्रहरन् सतुरग एकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरिकिशोरेण च शङ्खसैन्यं गजयूथमिव त्रासितं दिशो दिशमनशत् । पश्चान्नौवित्तको मारितः सइयद इति । तदनु लूणपालमृत्युस्थाने लूणपालेश्वरप्रासादो मन्त्रिणा कारितः । .६२ अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम्४४) हंसर्लब्धप्रशंसैस्तरलितकमलप्रत्तरङ्गैस्तरङ्ग
नौरैरन्तर्गभीरैश्चटुलबककुलग्रासलीनैश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतर्भाति प्रक्रीडर्मिस्तव सचिव चलच्चक्रवाकस्तटाकः ॥
श्रीमन्त्रिणा षोडशसहस्रद्रम्माणां देत्तिः प्रसादीकृता । ६३ कचिचिन्तातुरस्य मन्त्रिणो भूमिं मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत् । तद्यथा-. ४५) एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं
लज्जानमशिराः स्थिरातलमिदं यद्वीक्ष्यसे वेद्मि तत् ॥ वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल स्वयं
पातालाबलिमुद्दिधीर्घरसकृन्मार्ग भवान् मार्गति ।। मन्त्रिणास्य काव्यस्य पारितोषिकेऽष्टौ सहस्राणि दत्तानि ।
६४ तथा.. ४६) त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि । इति त्रिषु पदेषु पण्डितेष्वधीयमानेषु पण्डितजयदेवः समस्यापदमिव 'वस्तुपालः पुनर्वसु' । इत्युच्चरन् सहस्रचतुष्टयं लेभे।
१ दाक्षिः b H २ सहस्रा दानैः प्रसादीकृताः D
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org