________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः
६५ तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमूचे । कचित्तलं कचित्सूत्रं कार्पासास्थि कचित्कचित् । देव त्वदरिनारीणां कुटीतुल्या पटी मम ॥ तत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि । ६६ तथा बालचन्द्रनाम्ना पण्डितेन श्रीमन्त्रिणं प्रति - ४७) गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो
भूत्या, त्वं च लसद्गुणः शुभगणः किं वा बहु ब्रूमहे । श्रीमन्त्रीश्वर नूनमीश्वरकलायुक्तस्य ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः ॥
इत्युक्ते तस्याचार्य पदस्थापनायां द्रम्मसहस्रं व्ययीकृतं ॥
१६८
६७ कदाचिन्म्लेच्छपतेः सुरत्राणस्य गुरुमालिमं मखेतीर्थयात्राकृते इह समागतमवगम्य तज्जिघृक्षुभ्यां श्रीलवणप्रसादवीरधवलाभ्यां श्रीतेजः पालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान् ।
४८) धर्मछद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥
इति नीतिशास्त्रोपदेशेन वृकयोरिव तयोः छागमुन्मोच्य पाथेयादिना सत्कृत्य तं तीर्थं प्रति प्रहितवान् । स च कियद्भिर्वर्षेः ' ः पश्चाद्व्यावृत्तः श्रीमन्त्रिणा तदुचितनेपथ्यादिभिः सत्कृतः स स्वस्थानं प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरत्राणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरत्राणस्तदनन्तरमस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत् तत्त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य इति प्रतिवर्षं तत्प्रहितयमलकपत्रेणोपरुध्यमान श्रीमन्त्रीशः श्रीशत्रुञ्जयभूमिगृहयोग्यं श्रीयुगादिजिनबिम्बं धन्यं मन्य
१ मक्का २ दिनैः b D ३ सर्वथा C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org