SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः | [ चतुर्थः वीरमन्त्रिणं समानीय मन्त्री प्रासादस्वरूपं पप्रच्छ । ततस्तेन प्रासादकारकसूत्रधारः शोभनदेवोऽभ्यधायि । रङ्गमण्डपे शालभञ्भिकामिथुनस्य विशालघटस्तीर्थकृत्प्रासादे सर्वथानुचितो वास्तुनिषिद्धश्च । तथा गर्भगृहे प्रवेशद्वारे सिंहाभ्यां तोरणमिदं देवस्य विशेषपूजाविनाशि । तथा पूर्वपुरुषमूर्तियुतगजानां शाला पश्चाद्भागे प्रासादकारापकस्यायतिविनोशि । अप्रतीकारार्ह दूषणत्रयं विज्ञस्यापि सूत्रभृतो यदुत्पद्यते स भाविकर्मणो दोष इति निर्णय यथागतं स च गतः । तदुपश्लोकनश्लोका एवम् — ४१) यशोवीर यशोमुक्ताराशेरिन्दुरसौ शिखा । तद्रक्षणाय रक्षायाः श्रीकारो लाञ्छनच्छलात् ॥ १ ॥ ४२) बिन्दवः श्रीयशोवीर शून्यमध्या निरर्थकाः संख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः ॥ २ ॥ ४३) यशोवीर लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥ ३ ॥ इति श्रीशत्रुञ्जयादितीर्थानां यात्राप्रबन्धाः । १६६ ६१ अथ श्रीवस्तुपालस्य स्तम्भतीर्थे सइदनाम्ना नौवित्तकेन समं विग्रहे संजायमाने श्रीभृगुपुरान्महासाधनिकं शङ्खनामानं श्रीवस्तुपालं प्रति कॉलरूपमानीतवान् । स जलधिकूले दत्तनिवासो नगर प्रवेशमार्गान् शत्रुसंकीर्णानालोक्य, व्यवहारिणां चित्तानि यानपात्रप्रणयीनि च वीक्ष्य प्रहितैर्बन्दिभिः श्रीवस्तुपालेन समं समरवासरं निर्णीय, यावच्चतुरङ्गसैन्यं सन्नद्यते तावच्छ्रीवस्तुपालेन पुरःकृतो गुडजातीयो लूणपालनामा सुभटो यदि शङ्खमन्तरेणाहं प्रहरामि तदा कपिलां धेनुमेवेति वरवर्णिकापूर्वं कः शङ्ख इति तद्वचनादनु शङ्खोऽहमिति प्रतिसुभटेनोदिते तं १ विलासवाट DH २ पुरतः C ३ आयविनाशो D ४ बालकालरूपं K ५ भवण a लण D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy