________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः
इति विरुद्धां तद्भिरमाकर्ण्य स पश्चान्निववृते । तदनु तत्पुत्रेपण श्रीमदर्जुनदेवनाम्ना गूर्जरदेशभङ्गोऽप्यकारि ।
१६०
५१ श्रीमद्भीमदेवराज्य चिन्ताकारी व्याघ्रपल्लीसङ्केतप्रसिद्धः श्रीमदानाकनन्दनः श्रीलवणसाहप्रसादश्चिरं राज्यं चकार । तत्सुतः साम्राज्यभारधवलः श्रीवरिधवलस्तन्माता मदनराज्ञी देवराजनाम्नो भागनीपतेः पट्टकिलस्य भगिन्यां विपन्नायां तस्य बहुतरमनिर्वहमाणमा यद्वोरं निशम्य तन्निर्वहणाय लवणप्रसादाभिधपतिमापृच्छय शिशुना वीरधवलेन समं तत्र गता सती तेन स्पृहणीयगुणाकृतिरिति गृहिणीचक्रे | श्री लवणस्तद्वृत्तान्तं सम्यगवगम्य तं व्यापादयितुं निशितगृहे प्रविष्टो निभृतीभूय स यावदवसरं निरीक्षते, तावत्स भोजनायोपविशन् वीरधवलं विना नानामीति भूयो भूयो व्याहृत्य निर्बन्धात्समानीयैकस्मिन्नेव स्थालेऽश्नन्नकस्मादौपतितं शरीरिणं कृतान्तमिव स्वान्तकमालोक्य श्यामलास्यो मा भैषीरिति तेनोचे । यदहं त्वामेव हन्तुमागतः परमस्मिन्मन्नन्दने वीरधवले वात्सल्यं साक्षाच्चक्षुषा निरीक्ष्य तदाग्रहान्निवृत्तोऽस्मीत्युक्त्वा तेन सत्कृतो यथागतं जगाम । वीरधवलस्यापर पितृकाः राष्ट्रकूटान्वयाः साङ्गणचामुण्डराजादयो बीरेंजनत्वेन भुवनतलप्रतीताः । अथ स वीरधवलक्षत्रिय उन्मीलितकिञ्चिचेतनस्तस्माद्वृत्तान्तात्त्रयमाणस्तद्गुहं त्यक्त्वा निजमेव जनकं सिषेवे ।
५२ सत्त्वौदार्यगाम्भीर्यस्थैर्यनयविनयौचित्यदयादानदाक्षिण्यादिगुणशाली शालीनतया कण्टकैग्रस्तां कामपि भुवमाक्रम्य पित्रापिकियत्कृतजनपदप्रसादो द्विजन्मना चाहडनाम्ना सचिवेन चिन्त्यमानरा - ज्यभारः प्राग्वाटवंशमुक्तामणिना पुरा श्रीमत्पत्तन वास्तव्येन तत्कालं तत्रायाततेजः पालमन्त्रिणा सह सौहार्दमुत्पदे ।
१ आयद्वारं P २ दपि तं P ३ अपरमातृका: a P ४ वीरव्रतेन H ५ कटग्रस्तां H
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org