SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] कुमारपालप्रबन्धः। १९९ त्यभिहिते रुष्टो राजा । युद्धसज्जो भवेति तद्गिरमाकर्ण्य श्रीजैनबिम्बं समभ्याऽनशनं प्रपद्याङ्गीकृतसंग्रामदीक्षो निजसौधाद्राज्ञः परिग्रह निजभटवातेन तुषनिकरमिव विकरन घटिकागृहे प्राप्तस्तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालोकनागताभिरप्सरोभिरहंपूर्विकया त्रियमाणो देवभूयं जगाम ॥ ३३) वरं भट्टै व्यं वरमपि च खिङ्गैर्धनकृते वरं वेश्याचार्यवरमपि महाकूटनिपुणैः । दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥ ३४) त्रिभिर्वस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ ४८ इति पुराणोक्तप्रामाण्यात्स कुपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातनपातकी कृमिभिर्भक्ष्यमाणः प्रत्यहं नरकमनुभूय परोक्षतां प्रपेदे । सं० १२३० पूर्वमजयदेवेन वर्ष ३ राज्य कृतम् ॥ ४९ सं० १२३३ पूर्ववर्ष २ बालमूलराजेन राज्यं कृतमस्य मात्रा नाइकिदेव्या परमर्दिभूपसुतयोत्सङ्गे शिशुं निधाय गाडरारघट्टनामनि घाटे संग्रामं कुर्वत्या म्लेच्छराजा तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये ॥ ५० सं० १२३५ पूर्ववर्ष ६३ श्रीभीमदेवेन राज्यं कृतमस्मिन् राज्ञि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिगूर्जरदेशविध्वंसनाय सीमान्तमागतस्तत्प्रधानेन सम्मुखं गत्वेत्यवादि प्रतापो राजमार्तण्ड पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः ॥ * हितोपदेशे दृश्यते पद्यमिदम् १ प्रमाणो aP Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy