SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५० प्रबन्धचिन्तामणिः । [चतुर्थः तीर्थान्यऽवगावँ गते, स नृपतिना प्रसादीकृतां मुद्रामासाद्य महता महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विधृतः समानप्रतिछैरमिभवितुमारब्धः । ३०) जो करिवराण कुम्भे पायं दाऊण मुत्तिए दलइ । सो सीहो विहिवसई जम्बूयपरिपिल्लणं सहइ । इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले । ३१) अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः । उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ॥ स सुधीरित्यन्त्यकाव्यमधीयंस्तथैव व्यापादयांचक्रे । इति श्री कपदिप्रबन्धः ॥ ४६ अथ श्रीप्रबन्धशतकर्ता रामचन्द्रस्तु तेन भूपापसदेन तप्तताम्रपट्टिकायां निवेश्यमानः । ३२) महिवीढह सचराचरह जिण सिरि दिहा पाय । तसु अत्थमणु दिणेसरह होउत होई चिराये ॥ इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न एव व्यापादयांचक्रे । इति रामचन्द्रप्रवन्धः । ४७ अथ राजपितामहः श्रीमानामभटस्तत्तेजोऽसहिष्णुभिः सामन्तैस्तैः समं तदालब्धावसरैः प्रणामं कारयद्भिराक्षिप्त एवमवादीत् । देवबुद्ध्या श्रीवीतरागस्य, गुरुबुद्ध्या श्रीहेमचन्द्रर्षेः, स्वामिबुद्धया कुमारपालस्यैव मे नमस्कारोऽस्मिन् जन्मनीति जैनधर्मवासितसप्तधातुना तेने १ तदर्थान P २ जिणिसिरि दिन्ना a ३ दिणसरसु cd ४ होइतु होदु od ५ विराउ ab Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy