SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] कुमारपालप्रबन्धः उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभेारुत्सङ्गे मुक्तं । तत्प्रामाण्यातालव्यशकारनिर्णयस्तदग्रे प्रभुभिरभिहितः । इत्युर्वशीशब्दमबन्धः । २५ अथान्यदा सपादलक्षीयराज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमा रपालनृपतेः सभायामुपेतो राज्ञा भवत्स्वामिनः कुशलमिति पृष्टः । स मिथ्याभिमानी पण्डितमानी च विश्वं लातीति विश्वलस्तस्य च को बिजयसन्देहः । राज्ञा प्रेरितेन श्रीमता कपर्दिना मन्त्रिणा श्वश्वल्ल आशुतौ इति धातोर्विवि श्वलति नश्यतीति विश्वलः । इत्येवं प्रधानेन तन्नामदूषणं विज्ञप्त इति स राजा विग्रहराज इति नामं बभार । अपरस्मिन्वर्षे स एव प्रधानपुरुषः श्रीकुमारपालनृपतेः पुरो विग्रहरा - जनाम विज्ञपयन् मन्त्रिणा श्रीकपर्दिना विम्रो विगतनासिक एवं हराजौ रुद्रनारायणौ कृतौ, इति व्याख्यातं । तदित्यवगम्य तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः कविबान्धव इति नाम बभार ॥ १४७ २६ अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने संजायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु । दन्तकेशनखास्थित्वक्रोम्णां ग्रहणमाकरे । इति प्रभुकृते मूलपाठे पं० उदयचन्द्रः रोम्णो ग्रहणमिति भूयो भूयो वाचयन् प्रभुभिर्लिपिभेदं पृष्टः स प्राणितूर्याङ्गानामिति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं स विज्ञपयन् प्रभुभिः लाषितो राज्ञान्यै । इति पं० उदयचन्द्रप्रबन्धः । २७ अथ कदाचित्स राजर्षिर्वृतपूरभोजनं कुर्वन् किञ्चिद्विचिन्त्य कृतसर्वाहारपरिहार इति प्रभुं पप्रच्छ । यदस्माकं घृतपूराहारो युज्यते नवेति प्रभुभिरभिदधे । वणिग्ब्राह्मणयोर्युज्यते कृताभक्ष्य नियमस्य क्षत्रि - १ विमहराज इति पण्डितमुखात्तनाम ab H २ रोम्णां प्रहणं P ३ न्युंछनेन संभावितः H ४ पवित्रीभूय इति H Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy