________________
१४६
प्रबन्धचिन्तामणिः।
[ चतुर्थः २०) कथाशेषः कर्णोऽजनि जनकृशा काशिनगरी
सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः । सरस्वत्याश्लेषप्रवणलवणोदप्रणयिनि
प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः ॥ इत्युक्त्वापृछ्यमानो नृपसत्कृतः स यथास्थानमगात् ।
२२ कदाचिदेव श्रीकुमारपालविहारे नृपाहताः प्रभवः श्रीकपर्दिना दत्तहस्तावलम्बा यावत्सोपानमारोहन्ति तावन्नर्तक्याः कञ्चुके गुणमाकृष्यमाणं विलोक्य श्रीकपर्दी
२१) सोहग्गीउ सहि कञ्चुयउ जुत्त उत्ताणु करेइ । एवमुक्त्वा यावद्विलम्बते । ___पुट्टिहिं पच्छइ तरुणीयणु जसु गुणगहणु करेइ ॥ इति श्रीप्रभुपादैरुत्तरार्धमपूरि ॥
२३ कदाचित्प्रत्यूषे कपर्दिमन्त्री प्रणामानन्तरं हस्ते किमेतदिति पृष्टः स प्राकृतभाषया हरडइ इति विज्ञपयामास । प्रभुभिरुक्तं किमद्यापि ? आहतप्रतिभतया, तद्वचनच्छलमाकलय्य कपर्दिनोक्तं, इदानीं न कुतोऽन्त्योऽप्याद्योऽभूत् मात्राधिकश्च । हर्षाश्रुपरिपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरी प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो हरडइ इति शब्दच्छलेन हकारो रडइ । किमद्यापीत्यभिहितमात्रेण वचस्तत्त्वविदानेन नेदानीमुक्तं । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव ह रडइ साम्प्रतं त्वस्मन्नामनि प्रथमतया मात्राधिकश्च । इति हरडइ प्रबन्धः।
२४ कदाचित् केनापि पण्डितेनोर्वशीशब्दे शकारस्तालव्यो दन्त्यो वेति पृष्टे यावत्प्रभवः किञ्चित्समादिशन्ति तावत् , उरून् अश्नुते
१ उरूशेते a b_H L M
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org