________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः
यस्य तु न, तेन पिशिताहारस्यानुस्मरणं भवतीत्थमेवेति पृथ्वीपतिरभि - धाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं याचितवान् । द्वात्रिंशद्दशनसं ख्ययां द्वात्रिंशद्विहारान्कारयेति ।
१४८
राज्ञा तथाकृते, प्रभुदत्ते लग्ने वटपद्रकान्निजप्रासादे मूलनायकप्रतिष्ठां कारयितुं श्रीपत्तनमुपेयुषि कान्हनाम्नि व्यवहारिणि तन्नगरमुख्ये प्रासादे तद्विम्बं मुक्त्वा यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरक्षकैर्निरुद्धे द्वारि अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिष्ठा काले स तत्र प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्भं रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखमिति विमृश्य रङ्गमण्डपाद्वहिर्भूत्वा नक्षत्रचारेण स्वं लग्नमुदितं व्योम्नि विलोक्य घटिकासम्बन्धेन नैमित्तिकेन यस्मिँलने बिम्बानि प्रतिष्ठापितानि तेषां वर्षत्रयमायुः सम्प्रतितने लग्ने तु प्रतिष्ठितमिदं चिरायुरिति प्रभुभिरादिष्टं । स तदैव प्रतिष्ठामकारयत्तत्प्रभूक्तं तथैव जज्ञे । इत्यभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः ।
२८ मयापहृते धने पुरा कश्चिन्मूषको मृतस्तत्प्रायश्चित्ते राज्ञा याचिते तच्छ्रेयसे प्रभुभिस्तन्नामाङ्कितो विहारः कारितः । तथा च कयापि व्यवहारिवध्वाऽज्ञातज्ञातिनाम ग्रामसम्बन्धया पथि दिनत्रयं बुभुक्षितो नृपतिः शालिकरम्बेन सुहितीकृतस्तत्कृतज्ञतया तत्पुण्याभिवृद्धये करम्ब - विहारं श्रीपत्तनेऽकारयत् ।
२९ तथा यूकाविहारचैवं । सपादलक्षदेशे कश्चिदविवेकी धनी केशसम्मार्जनावसरे प्रियार्पितां यूकां करतले संगृह्य पीडाकारिणीं तां तर्जयंश्चिरेण मृदित्वा व्यापादयामास । सन्निहितेनामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशा१ दन्तसंख्यया एकस्मिन्भिडबन्धे a b २ प्रतिष्ठोत्सवे a घटिका D
३ कूट
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org