SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० प्रबन्धचिन्तामणिः । [चतुर्थः मिति व्याहृतिपरो विनयनम्रमौलियत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेयर्यावज्जीवं पिशितप्रसन्नानियमं दत्वा ततः प्रत्यावृत्तौ गुरुक्षमापती श्रीमदणहिल्लपुरं प्रापतुः । १५ श्रीजिनवदननिर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिबुद्धो नृपः परमार्हतबिरुदं भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितं विंशतिवीतरागस्तुतिभिरुपेतं पवित्रं योगशास्त्रं च रचयांचकार । प्रभोरादेशाच्चाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशक्त्सरप्रमितां सर्वभूतेषु मारि निवारितवान् । तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकुर्वन्नदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान् पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदीयपट्टकं विपाट्य मुमोच । तस्मिन्मुक्ते१३) *न यन्मुक्तं पूर्व रघुनहुषनाभागभरत प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः ॥ इति विद्वद्भिः स्तूयमाने१४) अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु संतोषतो मुञ्चन्सत्यं राजपितामहः ।। इति प्रभुरपि नृपतिमनुमोदयांचक्रे ॥ १६ अथ सुराष्ट्रदेशीयं सुंवैरनामानं विग्रहीतुं श्रीमदुदयनमन्त्रिणं दलनायकीकृत्य समस्तकटकबन्धेन समं प्रस्थापयामास । सोऽपि श्रीवर्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य स्वयं विमलैंगिरिमागतः विशुद्धश्रद्धया श्रीदेवपादानां १ व्याहृतिपरे गुरौ P * प्रभावकचरिते श्रीहेमचन्द्ररिप्रबन्धे पद्य (६९७) मिदम् । २ संउसर AC DM अभ्यर्य P Vात्रुजमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy