________________
प्रकाशः | कुमारपालप्रबन्धः ।
१३९ पुरुषगजदानादीनि महादानानि दत्वा कर्पूरारात्रिकमुत्तार्य समग्रं राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य न महादेवसमो देवः, न मम तुल्यो नृपतिः, न भवत्सदृशो महर्षिरिति भाग्यवैभववशादत्रं सिद्धे त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासंदिग्धे देवतत्त्वे मुक्तिप्रदं दैवतमस्मिस्तीर्थे तथ्यगिरा निवेदयेत्यभिहितः श्रीहेमाचार्यः किञ्चिद्धिया निध्याय नृपं प्राह । अलं पुराणदर्शनोक्तिभिः श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषीति तद्वाक्यात्किमेतदपि जाघटीतीति विस्मयापन्नमानसे नृपे निश्चितमत्र तिरोहितमस्त्येव दैवतमावां गूरूक्त. युक्त्या निश्चलावाराधको तदित्थं द्वन्द्वसिद्धौ सुकरं दैवतप्रादुःकरणं, मया प्रणिधानं क्रियते, भवता कृष्णागुरूत्क्षेपश्च कार्यस्तदा स परिहार्यो यदा व्यक्षः प्रत्यक्षीभूय निषेधयति । अथोभाभ्यामपि तथा क्रियमाणे धूपधूमान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालादीपकेषु आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने सम्भ्रमादुन्मृज्य यावदालोकते तावज्जलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसम्भाव्यस्वरूपं तपस्विनमद्राक्षीत् । तं पदाङ्गुष्ठात्प्रभृति जटावधि करतलेन संस्पृश्य निश्चितदेवतावतारः पचाङ्गचुम्बितावनितलं प्राणपत्य भक्त्या भूमानिति विज्ञपयामास । जगदीश भवदर्शनात्कृतार्थे दृशौ आदेशप्रसादात्कृतार्थय श्रवणयुगलमिति विज्ञप्य तूष्णीं स्थिते मोहनिशादिनमुखात्तन्मुखादिति दिव्या गीराविरासीत् । राजन्नयं महर्षिः सर्वदेवतावतारः । अजिह्मपरब्रह्मावलोकः करतलकलितमुक्ताफलवत्कालत्रयविज्ञातस्वरूपः । एतदुपदिष्टएवासंदिग्धो मुक्तिमार्ग इत्यादिश्य तिरोभूते भूतपतावुन्मनीभावं भजति भूपतौ, रेचितप्रा. णायामपवनः श्लथीकृतासनबन्धः श्रीहेमचन्द्रो याद्राजनिति वाच. मुवाच । तावदिष्टदैवतसङ्केतात्त्यक्तराज्याभिमानो जीव पार्दाववधार्यता
१ अयत्नसिद्धे a HL २ मेतदिति a) ३ भजन भूपतिः HaL ४ याजनमिति a P ५ जीवर आदावधार्यतामिति P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org