________________
प्रबन्धचिन्तामणिः ।
[चतुर्थः १४ नृपतेः समग्रसामग्र्या कतिपयैः प्रयाणकैः श्रीपत्तनं प्राप्तस्य श्रीहेमचन्द्रमुनीन्द्रमिलनादतिप्रमुदितस्य सन्मुखागतेन गण्ड० श्रीबृहस्पतिनानुगम्यमानस्य महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपाने. प्वाक्रान्तेषु भूपीठलुण्ठनादरादनन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगूढसोमेश्वरलिङ्गस्य, एते जिनादपरं न नमस्कुर्वन्तीति मिथ्यादृग्वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्र प्रति एवं विधा गीराविरासीत् । यदि युज्यते तैदेतैरुपहारैर्मनोहारिभिः श्रीसोमेश्वरमर्चयन्तु भवन्तः । तत्थेति प्रतिपद्य क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनु पतिनिर्देशाच्छ्रीबृहस्पतिना दत्तहस्तावलम्बः प्रासाददेहलीमधिरुह्य किञ्चिद्विचिन्त्य प्रकाशं । अस्मिन्प्रासादे कैलासनिवासी महादेवः साक्षादस्तीति रोमाञ्चकञ्चुकितां तनुं बिभ्राणो द्विगुणीक्रियतामुपहार इत्यादिश्य शिवपुराणोक्तदोक्षाविधिनाह्वाननावगुण्ठनमुद्रामन्त्रन्यासविसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यर्च्य तदन्ते११) *यत्र तत्र समये यथा तथा
योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवा
न्नेक एन भगवन्नमोऽस्तु ते ॥ १ ॥ १२) भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥ २ ॥ इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रणाम पूर्व स्तुत्वा श्रीहेमाचार्य उपरते सति, स नृपः श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवार्चानन्तरं धर्मशिलायां तुला
१ मुपगूढे सोमेश्वरलिङ्गे H मुपगढसोमेश्वरलिङ्गे a L २ तवैतै P * प्रभावकचरिते श्रीहेमचन्द्ररिप्रवन्धे ( ३४७ ) पद्यमिदम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org