________________
प्रकाशः ]
कुमारपालप्रबन्धः ।
पूजादि विधाय यावत्पुरतो विधिवच्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया दीपवर्ति देदीप्ययानामादाय मूषकः काष्ठमयप्रासादबिले प्रविशन्देवाङ्गरक्षैस्त्याजितस्तदनु स मन्त्री समाधिभङ्गात् काष्ठमयदेवप्रासादविध्वंसभयाज्जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभिग्रहान् जग्राह । तदनु कृतप्रयाणः स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समं समरे जायमाने परैः पराजिते नृपबले श्रीमदुदयनः समुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतेः सकरुणं क्रन्दन् स्वजनैस्तत्कारणं पृष्टः सन्निहिते मृत्यौ श्रीशत्रुंजयशकुनिका विहारयो - जीर्णोद्धार वाञ्छया देवऋणं पृष्टिलग्नं मन्त्री प्राह । अथ तैर्भवन्नन्दनौ वाग्भटाभट नामानौ गृहीताभिग्रहौ तीर्थद्वयमुद्धरिष्यत इत्यर्थे वयं प्रतिभुवः इति तदङ्गीकारात्पुलकिताङ्गः धन्यंमन्यः अन्त्याराधनकृते स मन्त्री कमपि चारित्रिणमन्वेषयामास । तस्मिन्ननुपलभ्यमाने कमपि वण्ठं तद्वेषमानीय निवेदिते मन्त्री तदङ्की ललाटे परिस्पृशन् तत्समक्षं दशधाराधनां विधाय श्रीमानुदयनः परलोकं प्राप । वण्ठस्तु चन्दनतरोरिव तद्वासनापरिमलेन क्षुद्रद्रुमवद्वासितोऽनशनप्रतिपत्तिपूर्वकं रैवतके जीवितान्तं चकार ।
#
१७ अथाणहिल्लपुरं प्राप्तैस्तैः स्वजनैस्तं वृत्तान्तं ज्ञापितौ वाग्भटाभट तानेवाभिग्रहानुगृहीत्वा जीर्णोद्धारमारेभाते । वर्षद्वयेन श्रीशत्रुंजये प्रासादे निष्पन्ने उपेत्यागतमानुषेण वर्षापनिकायां वाच्यमानायां पुनरागतेन द्वितीयपुरुषेण प्रासादः स्फुटित इत्यूचे । ततस्तप्तत्रपुप्रायां गिरं निशम्य श्रीकुमारपाल भूपालमा पृच्छयमहं ० कपर्दिनि श्रीकरणमुद्रां नियोज्य तुरङ्गमाणां चतुर्भिः सहसैः सह श्रीशत्रुंजयोपत्यकां प्राप्य स्वनाम्ना वाग्भेटपुरनगरं निवेशयामास । सभ्रमप्रासादे पवनः
१ नीते P २ कपर्दिने C ३ बाहुड La
Jain Education International
१४१
For Private & Personal Use Only
www.jainelibrary.org