________________
प्रकाशः ]
१३५
कुमारपालप्रबन्धः ।
जन्मप्रभृति तच्चरित्रं पवित्रमित्थमाह । अर्घाष्टमनामनि देशे धुन्धुक्क - नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी, सतीजनमतल्लिका जिनशासनदेवी व तत्सधर्मचारिणी शरीरिणीव श्रीः पाहिणीनाम्नी चामुण्डागोनशयोराद्याक्षरेणाङ्कितनामा, तयोः पुत्रश्चाङ्गदेवोऽभूत् । स चाष्टवर्षदेश्यः श्रीदेवचन्द्राचार्येषु श्रीपत्तनात्तीर्थयात्राप्रस्थितेषु धुन्धुक्के श्री मोदवस हिकायां देवनमस्करणाय प्राप्तेषु सिंहासनस्थिततदीयनिषद्याया उपरि सवयोभिः समं रममाणः शिशुभिः सहसा निषसाद । तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि प्रेक्ष्य, अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिविप्रकुले जातस्तदा महामात्यश्चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयति स आचार्य इति विचार्य तन्नगरव्यवहारिभिः समं तल्लिप्सया चाचिगौकः प्राप्य तस्मिंश्वाचिगे ग्रामान्तरभाजि तत्पत्न्या विवेकिन्या स्वागतादिभिः परितोषिताः श्रीमन्तस्त्वत्पुत्रं याचितुमिहागता इति व्याहरन्तोऽथ सा हर्षाणि मुञ्चती स्वं रत्नगर्भं मन्यमाना श्रीसंघस्तीर्थकृतां मान्यः स मत्सूनुं याचते इति हर्षास्पदेऽपि विषादः, एतस्य पिता नितान्त मिथ्यादृष्टिः । अपरं तादृशोऽपि सम्प्रति ग्रामे नास्ति । अथ तैर्व्ययहारिभिस्त्वया दीयतामित्युक्ते स्वदोषोचारणाय मात्रा दाक्षिण्यादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तैर्गुरुभिः स शिशुः शिष्यो भविष्यसीति पृष्टः, ओमित्युच्चरन् प्रतिनिवृत्तैस्तैः समं कर्णावत्यामाजगाम । उदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानो यावदास्ते तावता ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधिसंन्यस्त समस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप । तद्वसतौ समागत्य कुपितः पितेषत्तान्प्रणनाम | गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिराव
१ चामुण्डानामगोत्रजायाः KM २ श्रीसंघ: CDK३ आगतः K
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org