SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ प्रबंन्धचिन्तामणिः : । [ चतुर्थः तवता किमेतदिति नृपेण पृष्टः प्राह । कदाचिदिह कोऽपि जन्तुर्भवति तदाबाधापरिहारायाऽसौ प्रयत्नः । यदा प्रत्यक्षतया जन्तुर्निरीक्ष्यते तदैवेदं युज्यते नापरथा वृथाप्रयासहेतुत्वादिति युक्तियुक्तां नृपोक्तिमाकर्ण्य तैः सूरिभिरभिदधे । गजतुरगाद्या चमूः किं प्रतिनृपतिरिपावुपस्थिते क्रियते उत पूर्वमेव, यथायं राजव्यवहारस्तथा धर्मव्यवहारोऽपीति तद्गुणरञ्जितहृदा पूर्वप्रतिपन्ने राज्ये दीयमाने सर्वशास्त्रविरोधहेतुत्वात् यदाह ९) राजप्रतिग्रह दग्धानां ब्राह्मणानां युधिष्ठिर । दग्धानामिव बीजानां पुनर्जन्म न विद्यते ॥ इदं पुराणोक्तं । तथा च जैनागमः - १०) सत्ति ही गिहिमते ये रायपिण्डे किमिच्छएँ । इति तत्संबोधाचमत्कृतचित्तः श्रीपत्तनं प्राप || - " ११ भूपोऽन्यदा मुनिं पप्रच्छ कयापि युक्त्याऽस्माकमपि यशः प्रसरः कल्पान्तस्थायी भवतीति तदीयां गिरं श्रुत्वा विक्रमार्क इव विश्वस्यानृण्यकरणात् यद्वा सोमेश्वरस्य काष्ठमयं प्रासादं वारिधिशीकरनिकरैरासन्नाम्भः शीर्णप्रायं युगान्तस्थायिकीर्तये समुद्धरेति चन्द्रातपनिभया श्रीहेमचन्द्रगिरे। ल्लसन्मुदम्भोधिर्नृपस्तमेव महर्षि पितरं गुरुं दैवतं मन्यमानो विजानाति । निरन्तरं द्विजाननिन्दंस्ततः प्रासादोद्धाराय तदैव दैवज्ञनिवेदितसुलग्नस्तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् । १२ अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृतहृदयो नृपो मन्त्रिश्रीउदयनमिति पप्रच्छ । एतादृशं पुरुषरत्नं समस्तवंशावतंसं देशे च समस्तगुणाकरे नगरे च कस्मिन्समुत्पन्नमिति नृपादेशादनु स मन्त्री - १ सन्निगिहिमित्य AbI २ इदं दशवैकालिकसूत्रस्थं वचनम् ३ अन्त CH ३ समस्तवंशावर्तसे वंशे देशे च समस्तपुण्यप्रवेशे निःशेषगुणाकरे नगरे च ॐ K Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy