________________
१३६
प्रबन्धचिन्तामणिः ।
[ चतुर्थः
र्जितः, तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुबुद्ध्या निजमन्दिरे नीत्वा ज्यायः सहोदरभक्त्या भोजयांचक्रे । तदनु चाङ्गदेवसुतं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलत्रयं प्रत्यक्षं लक्षत्रयं चोपनीय सभ क्तिकमावर्जितः । तं प्रति चाचिगः प्राह । क्षत्रियस्य मूल्ये अशीत्यधिकसहस्रं, तुरगस्य मूल्ये पञ्चाशदधिकानि सप्तदशशतानि अकिश्चित्करस्यापि वणिजो मूल्ये नवनवतिकलभाः एतावता नवनवतिलक्षाः । त्वं तु लक्षत्रयं समर्पयन्नैौदार्यछद्मना कार्पण्यं प्रादुः कुरुषे । मत्सुतस्ता - वदनयों भवदीया च भक्तिरनर्घ्यतमा तस्य मूल्ये सा भक्तिरस्तु शिवनिर्माल्यमिवास्पृश्यो मे द्रव्यसंचयः । इत्थं चाचिगे सुतस्य स्वरूपमभिदधाने प्रमोदपूरितचित्तः स मन्त्री अकुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति वदन् श्रीमानुदयनः प्राह । मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता, गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जाय
तो यथोचितं विचार्य व्याहरेत्यादिष्टः स भवद्विचार एव प्रमाणमिति वदन् गुरुपार्श्वे नीतः सुतं गुरुभ्योऽदीदपत् । तदनु सुतस्य प्रव्रज्या - करणोत्सवश्वाचिगन चक्रे । अथ कुम्भयोनिरिवाप्रतिमप्रतिभाभिरामतया समस्तवाङ्मयाम्भोधिमुष्टिंधयोऽभ्यस्तसमस्त विद्यास्थानो हेमचन्द्र गुरुदत्तनाम्ना प्रतीतः । सकलसिद्धान्तोपनिषन्निषण्णधीः षट्त्रिंशता सूरिगुणैरलङ्कृततनुर्गुरुभिः सूरिपदेऽभिषिक्तः । इति मन्त्रिणोदयनेनोदितां हेमाचार्यजन्मप्रवृत्तिमाकर्ण्य नृपो मुमुदेतरां ।
१३ अथ श्री सोमनाथदेवस्य प्रासादारम्भे खरशिलानिवेशे संजाते सति पञ्चकुलप्रहितवर्धापनिकाविज्ञप्तिकां नृपः श्रीहेमचन्द्रस्य गुरोर्दर्शयन्, अयं प्रासादप्रारम्भः कथं निष्प्रत्यूहं प्रमाणभूमिमधिरोदेति पृथ्वी
१ शिखरशिला निवेशे P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org