________________
१२३
प्रकाशः]
सिद्धराजप्रबन्धः । ४९) मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज
रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् । श्रीसिद्धेशकृपाणिपाटितरिपुस्कन्धोच्छलच्छोणित
स्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ॥ ३ ॥ ५०) *श्रीमज्जैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे
पानीयाशयशोषणैः करटतो वीरव्रणाकाङ्क्षया । स्वीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामं स्त्रियः॥४॥ ५१) सपादलक्षः सह भूरिल:
रानाकभूपाय नताय दत्तः । दृप्ते यशोवर्मणि मालवोऽपि
त्वया न सेहे द्विषि सिद्धराज ॥ ५ ॥ इत्योद्या बहुशः स्तुतयः प्रबन्धाश्च तदीयाः ॥ संवत् ११५० पूर्व श्रीसिद्धराजश्रीजयसिंहदेवेन वर्षाणि ४९ राज्यं कृतं॥
इति मेरुतुङ्गाचार्यकृते प्रबन्धचिन्तामणौ श्रीकर्णश्रीसिद्धराजयोर्विविधचरित्रनानावदातवर्णनो नाम
तृतीयः प्रकाशः॥
१ कृपाण (C२ वीरव्रत b ३ वामध्रुवः b ४ तुरि D * ५०,५१ श्लोको M आदर्शन दृश्येते ५ इत्याद्या बहवस्तदीयाः स्तुतयः प्रबन्धाश्च ॥ D ६ संवत् ११५० वर्षे उपविष्टो जयसिंहदेवस्तथानेन वर्ष ४९ राज्यं कृतं P प्रद्युम्नसरिकृत विचारसारस्योल्लेखः प्रथमसंपादकेनात्रकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org